________________
(१४४ )
आयेषु चास्तिक्यगुणप्रसारणादन्त्येषु नास्तिक्यगुणापसारणात् ॥ १० ॥ चिरं विचारं परिचिन्वताऽमु यन्न्यूनमन्यूनमवादि वादतः। कदाग्रहादा भ्रमसम्भ्रमाभ्यां तन्मे मृषा दुष्कृतमस्तु वस्तुतः ॥ ११ ॥ मया जिनाधीशवचस्सु तन्वता श्रद्धानमेवं य उपार्जि सज्जनाः। धर्मस्तदेतेन निरस्तकर्मा निर्मातशमोऽस्तु जनः समस्तः॥ १२ ॥ वरतरखरतरगणधरयुगवरजिनराजसूरिसाम्राज्ये । तत्पट्टाचार्यश्रीजिनसागरसूरिषु महत्सु ॥ १३ ॥ अमरसरसि वरनगरे श्रीशीतलनाथलब्धसान्निध्यात् । ग्रन्थोऽग्रन्थि समर्थः सुविदेऽयं सूरचन्द्रेण ॥ १४ ॥ युग्मम् ॥ ३७ आस्तिकेषु । ३८ नास्तिकेषु । ३९ मिथ्या । ४० तत्त्वतः। ४१ गत । ४२ सिद्ध।