________________
( १४७ ) वर्षे नन्दतुरङ्गचन्दिरकलामानेऽश्वयुक्पूर्णिमा ज्ञे योगे विजयेऽहमेतममलं पूर्ण व्यधामादरात् ग्रन्थं वाचकसूरचन्द्रविबुधः प्रश्नोत्तरालङ्कृतं साहाय्यादरपद्मवल्लभगणेरर्हत्प्रसादश्रियै ॥ २३ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे सरचन्द्रमनःस्थिरीकारे ग्रन्थग्रथनोत्पन्नपुण्यजनतासमर्पणस्वीयगच्छगच्छनायकसम्प्रदायगुरुनामस्वकीयगुरुभ्रात्रादिनामकीर्तनोक्तिलेश
एकविंशोऽधिकारः सम्पूर्णः । ॥ तत्सम्पूर्णे च परिपूर्णोऽयं जैनतत्त्वसारो ग्रन्थः ।
४६ (१६७९)। ४७ बुधे । ४८ पदैकदेशे पदसमुदायोपचारात् इति सूरइति सूरनाडी-सूर्यनाडीत्यर्थः चन्द्रइति चन्द्रनाडीत्यर्थः मनइति सुषुम्णानाडीसूचनं यदन्तर्गतं मनः स्थिरीस्यात् । तथा च हठप्रदीपिका। मारुते मध्यसञ्चार मनःस्थैर्य प्रजायते इति । ततो मनःस्थिरीकार इति सुषुम्णोच्यते । आसां नाडीनां स्थिरीकारो यस्मिन्नित्येकस्विरीकारशब्दालापायथेष्टार्थमाप्तिः पक्षे ग्रन्धकर्तृनामसूचनमिति ध्येयम् ।।