SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ( १३८ ) मिथ्येति चाज्ञानमितीतिशब्दैः । सद्योगिनोऽन्निगदन्ति तज्ज्ञा भ्रमं नैव निबद्ध आत्मा ।। २९ ।। ॥ विशेषकम् ॥ *मोऽत्र मिथ्यानिजकल्पनोत्थितो २९ शब्दान् । ३० भ्रमोत्रेति मिथ्या असत्या या निजकल्पना स्वमानसिकविकारस्तत उत्थित उत्पन्नो य एवंविधो यो भ्रमो मिथ्याज्ञानमनात्मीयवस्तुन्यात्मीयवस्त्ववगमः स्त्रीपुत्रमित्रमातापितृद्रव्यशरीरादिसहवर्त्तिवस्तुषु अननुगामित्वेनास्वीयत्वान्ममेदमिति मिथ्याज्ञानं भ्रमः तेन संसारे शरीरे च मनोरमवस्तुषु रक्तमनोनिवर्त्तनं संसारे शरीरे च वर्त्तमाने दुर्वस्तुनि दुष्टमनोनिवृत्तिरिति वीतरागत्वेन रक्तद्विष्टमनस्त्वनापादनं सम्यग्ज्ञानं तद्विपरीतं ज्ञानं मिथ्याज्ञानं स एव भ्रमः अतस्मिंस्तद्रहो भ्रमः यथा शुक्रग्रहणार्थं वृक्षोपरि चक्रं स्थापयन्ति तच्चक्रकर्णिकायां च कारवेल्लकं स्थापयन्ति तत्र च ममेदं भक्ष्यमिति मिथ्याज्ञानेन भ्रमेण शुक्र आगत्य तिष्ठति तस्य स्थानतस्तच्चक्रं स्वयमेव च भ्रमति तद्भ्रमणात्तत्रस्थः शुकः केनाप्यगृहीतोऽपि भ्रभान्मन्यते यदहं केनापि गृहीतो वा पाशे निपातितः ततश्चक्रेण सह स्वयमपि भ्राम्यन्तच्चक्रं स्वष्टमिवागृह्य स्वमवद्धमपिवद्धं मन्यमानः चूचूत्कारान करोति तद्वेलायामशङ्कितो यदि उड्डीय याति तदा मुक्तः स्यात् अन्यथा भ्रमेणावपि तद्वाहकेण गृहीत्वा बध्यते इत्येवं नलिनीशुको यथा भ्रमेणैवं बध्यते पुनर्मर्कटकोऽप्यात्मानं भ्रमेणैव वन्धयति । यथा मर्कटग्राहकाः चणकभृतपात्रं स्थापयन्ति तत्राहारार्थी मर्कटो करं क्षिप्वा चणकमुष्टिं बद्धा तादृशमेवकरं कर्षति तदा तु समुष्टिः करो न निर्गच्छति नंदाऽयं जानाति अहमन्तरा केनचिद् वद्धः तदाऽवद्धपि स्ववद्ध
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy