________________
( १३७ )
यन्मक्षु मुक्त्यर्थमयं विचारः । चित्ते समुत्पन्न इयानिदानी मन्ये तदा तेऽत्र मनोस्ति मुक्त्यै ॥ २५ ॥ आकर्णय त्वं मयका निगद्यमानं मुनेमुक्तिपथं समर्थम् । सिद्धान्तवेदान्तरहस्यभूतं गुरूपदेशादाधिगम्य किञ्चित् ॥ २६ ॥ मुक्ति समिच्छुमनुजः पुरस्तात् करोतु चित्ते स विचारमेतत् । आत्माह्ययं योगिभिरेष शुद्धो बुद्धश्च मुक्तश्च निरञ्जनश्च ॥ २७ ॥ इत्युच्यते तर्हि तु केन बद्धो मुक्तस्त्वयं बद्धयत एप कस्मात् । ज्ञातं भ्रमेणेति यमूचुरायाः कर्मेति “मोहेति भ्रमेत्यविद्या ॥ २८ ॥ कर्तेति मायेति गुणेति दैवं
२७ ज्ञात्वा । २८ मोहेत्यादावितिनैव विभक्त्यर्थस्योक्तत्वान्न विभक्तिर्यथा "श्रीरामेति जनार्दनेति जगतां नाथोंते नारायणेत्यानन्देति दयावरेति कमलाकान्तति कृष्णेति वा । श्रीमन्नाममहामताधिलहरीकल्लोलमग्नं मुहुमुह्यन्तं गल दश्रुनेत्रमवशं मां नाथ नित्यं कुरु १" इति श्रीभगवतः कवेरुक्तिः पद्यावल्यां तथात्रापि ।