________________
( १३६ ) चिद्रूप आत्मायमधिष्ठितस्तनुं कर्माऽनुभावादसकौ शरीरी। ध्यानामिनिर्दग्धसमस्तकर्मा स्याच्छुद्ध आत्मा तु तदा निरञ्जनः ॥ २१ ॥ ईतीयता सिद्धमिदं विदन्तो यदात्मबोधान्न परोऽस्ति सिद्धये । हेतुस्ततोऽत्रैव यतध्वमध्वनि येनात्मनः स्थानमहो महोदये ॥ २२ ॥ मुनीश साधूदित एष मुक्तेमार्गो जिनेन्द्रागमयुक्तिसिद्धः। उत्सर्गनोत्सर्गहठाभिमुक्तः श्रेयःश्रिये केवलराजयोगात् ॥ २३ ॥ परं हि यः सर्वमतानुयायी मार्गोऽस्ति मुक्तेदतमात्मदृष्ट्यै । अध्यात्मविद्याधिगमैकहेतुः स मे निवेद्यः सरलः श्रम विना ॥ २४ ॥ अहो त्वदीया खल्लु सूक्ष्मदृष्टि१९ प्रभावात् । २० प्रवन्धेन । २१ भो जानन्तः भो पण्डिता इत्यर्थः । २२ मोक्षे । २३ उत्सर्गापवादलक्षणैकान्तकर्त्तव्यतारूपहठ रहितः स्याद्वादाधिश्रित इत्यर्थः । २४ मोक्ष । २५ दर्शन । २६ ज्ञानाय ।