________________
( १३९ ) येनैव बद्धो नलिनीशुको यथा। बद्धः पुनर्मर्कटकोऽपि तहत् तथैष आत्मा भ्रमतो निबद्धः ॥ ३० ॥ भ्रमे तु मुक्ते मनसः सकाशादात्मैष मुक्तो भवतीति सिद्धम् । अस्मिंस्तु मुक्ते हि भवेदभेदस्तदात्मनः श्रीपरमात्मनश्च ॥ ३१ ॥
यदानयोर्वीक्षत एकभावं मिति मन्यमानः चीचीत्कारान्कुर्वन् तद्वन्धकेन स वध्यते यदि तदा स्वबद्धां मुष्टिं छोटयित्वा याति तदाऽवद्धो भवति परमयमपि स्वकीयमिथ्याभ्रमात् स्वं बन्धयति । एवमयमात्मापि अस्वीये वस्तुनि ममेदमिति स्वबुद्धिं कुर्वाणः कर्मभिर्वध्यते यदा तु शरीरादिके वस्तनि अनात्मीयतामाचरति अरक्तोऽद्विष्टश्च तिष्ठति तदा संसारस्थोऽपि मुक्तो भवति यदा त्वयमात्मा मुक्तस्तदान्तरात्मनः पारमात्म्यं प्रादुःण्यात यत उच्यते । वहिरात्मान्तरात्मापरात्माभेदादात्मा त्रिविधः तत्र यावता हेयोपादेयविचारवैकल्यात् केवलेन्द्रियविषयासक्तो भवेत्तदा वहिरात्मा हेयोपादेयज्ञानवान् विषयसुखपराङ्मुखो भवान्तर्वर्तिवस्तुरक्तद्विष्टमनोनिवृत्तिमान् विरक्तोऽन्तरात्मा अयमेव यदा सिद्धफेवलात्मज्ञानस्तदापरात्मेत्युच्यते तदात्मपरमात्मनोन भेदवान् भवति यदा तु योगी आत्मानमात्मनात्मनि परमात्मभूतं पश्यति तदा योगी आत्मज्ञानी उच्यते स हि केवलज्ञानीति पर्यायान्तरं लभते ततश्चायं कर्ममुक्तः क्रियामुक्तः भ्रान्तिमुक्तश्च स्यात इति योगिसमाचारः। अथ काव्यद्वयेनोक्तामेवावस्था द्रदयति यदा त्वयमित्यादि ।