________________
६
( १२४ ) सिद्धः फलायास्ति न साध्यमानः । तथान्यदेशव्यवहारकर्म तत्कालपूर्ती फलति प्रकामम् ॥ ५॥ तथैव पूजादिकमन्त्रपुण्यं काले स्व एवास्ति भवान्तराख्ये । फलप्रदायीति ततो न दक्षरौत्सुक्यमेष्यं फलदे पदार्थे ॥ ६॥ पुनर्बुधाऽव॑स्य हृदि स्वकीये पूर्व प्रणीता य इमे पदार्थाः। ते चैहिका ऐहिकदायिनस्तत् फलन्यथात्रैव यतोऽग्रतो न ॥७॥ मनुष्यसम्बन्धिभवस्य तुच्छकालीनभावादिति तुच्छमेभ्यः। प्राप्यं फलं तेन मनुष्यजन्मन्यैवात्र नभ्योऽस्ति फलं परत्र ॥ ८॥ . इदं सुहृत् पुण्यभव फलं तु महत्ततः स्याबहुकालभुक्त्यै । ६४ पुनरास्तिकः प्राह । ६५ जानीहि । ६६दक्षिणावर्तकादिभ्य परत्र फलं न स्यात् अननुगामित्वात्, चर्मचक्षुदृश्यमानपदार्थास्तु जीवानामसहगामिनो भवन्ति, परमेश्वरपूजादिसमुत्थं पुण्यफलं अदृष्टत्वात् अदृष्टजीवेन सहगामि भवतीति तत्त्वम् । ६७ परलोके । . .