SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ( १२५ ) प्रभूतकालस्तु विना भवान्तरं देवादिसम्बन्धि न वर्तते यतः ॥ ९ ॥ तत्पुण्यलभ्यं फलमेतदस्ति प्रायोऽन्यजन्मान्तरयातजन्तोः । यद्यत्र जन्मन्युपयाति पुण्यफलं तदा मङ्क्षुविनाशमेव ॥ १० ॥ यतो मनुष्यायुरतीव तुच्छं मानुष्यकं देहमिदं शरारु । तद्भुज्यमानं मरणान्तरागमात् सन्त्रुट्यतीदं पृथुपुण्यजं फलम् ॥ ११ ॥ सुखान्तराँ दुःखभवो महीयोदुःखाय यत्स्यादतिभीतिदा मृतिः । सा पुण्यजेऽस्मिन्सति नैव युक्ता तदन्यजन्मे फलमेतदेति भोः ।। १२ ।। अनेकधोत्पन्नमनेकशो यथोपभुज्यमानं बहुकालमात्रम् । न क्षीयते पुण्यफलं तदेतत् प्रायोऽन्यजन्मन्युदयं समेति ॥ १३ ॥ ६८ प्राप्त । ६९ विनश्वरम् । ७० मध्ये | ७१ उत्पत्तिः । ७२ महत्तर । ७३ फले । ७४ बहुकालमेव स्वार्थे मात्रमत्ययः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy