________________
( १२३ ) ॥अथ एकोनविंशोधिकारः॥
साधो वरं प्रोक्तमिदं परं यथा चिन्तामणिमुख्यमिहार्चकानाम् । सद्यः फलत्येव तथात्र पारमेशी फलेन्नो प्रतिमार्चिताऽसौ ॥ १ ॥ सत्यं त्वदुक्तं परमत्र साधो संस्थाप्य चेतः स्थिरमित्यवेहि। यवस्तुनो योऽस्ति फलस्य कालस्तत्रैव तदस्तु फलयशङ्कम् ॥ २॥ यथाहि गर्भो नवभिस्तु मासैः पूर्णैर्लभेत् सूतिमिहैव नार्वाक् । तथा पुनः काश्चन मन्त्रविद्याः लक्षण कोट्याथ फलन्ति जापैः ॥ ३ ॥ वनस्पतिर्वा समये स्वकीये सर्वः फलत्येष न चात्मशैघ्यात् । सेवापि राजत्रिदशेश्वरादिसम्बन्धिनी वा फलतीह काले ॥ ४ ॥ संसाध्यमानोऽत्र रसोऽपि काले ६३ पारदोऽपि ।