________________
( ११९ ) तो लडते यः स तदा न साधुनौल्लङ्घते सैष जनेषु साधुः। आम्नायशास्त्रेषु मरूधवाः स्यात् तथाऽऽकृतिमण्डलतो विलेख्या ॥ ४ ॥ स्वरोदयस्याथ विचारशास्त्रे तत्त्वानि पञ्चापि च साकृतीनि । अनाकृतं वस्त्विति साकृतं यथा स्यादित्थमाकार इहाप्यनाकृतेः ॥ ५॥ पुनर्बुधेक्षस्व यतीह सन्ति लोकेषु लोकाः किल लब्धवर्णाः । सर्वैश्वतैराकृतिवर्जिता अपि वर्णाः प्रकृप्ताः स्वैकनामसाकृताः ॥ ६ ॥
४९ आज्ञा । ४६ भव्य । ४७ आगमशास्त्रे मन्त्रशास्त्रे । ४८ मरुद्वायुः द्यौश्च नभः मरुञ्च द्योश्च मरुद्दयावौ तयोर्मरुधवोः वायुनभसोः। ४९ मण्डलकारणहेतुनाकृतिविलेख्या यथा मरुत्मण्डलं चाकाशमण्डलं चेति-उक्त्वा तदाकाशे लिख्यते ।५० पृथिव्यप्तेजोवावाकाशलक्षणानि। ५१ आकृतिराकृतमाकारः भावे क्तः अनाकृतमनाकारं। ५३ सिद्धस्य । ५४ रचिताः। ५५ स्वकं यन्नाम तेनैव साकृताः साकारा ये ते स्वकनामसाकाराः आकारादयो वर्णाः यथायमाकारः अयं ककारः अयं हकारः इति स्वस्वनामग्राहं वर्णाः साकाराः कल्पिताः स्वचित्तकल्पनया स्थापिता इति ।