________________
( १९८ ) ॥अथ अष्टादशोऽधिकारः॥ यहा त्वनाकारखतोपि बिम्ब सिर्द्धस्य शुद्धं भगवत्सुनाम्नः । तत्तत्स्वचित्ताशयचिन्तिताशां साक्षादिवेदं वितरत्वशङ्कम् ॥ १॥ यत्स्थापना सा स्वकचित्तकल्प्या संतोऽसतो वास्त्विह वस्तुनः सा । सर्वापि यादृग्निंजभावसेविता तादृक्फलं यच्छति नात्र संशयः ॥ २॥ लोकेऽप्यनाकारमयस्य वस्तुनः आकारभावः परिदृश्यते यथा । आज्ञास्त्यसौ भागवतीति वाचंवाचं तु लेखाक्रियते मनुष्यैः ॥ ३॥ ३८ भगवान् इति शोभनं नाम यस्य सिद्धस्य स. तथा तस्य यो हि सिद्धो भगवान् इत्युच्यते । ३९ सिद्धवत् । ४० विद्यमानस्य अविद्यमानस्य वा । ४१ आज्ञा स्वयं साक्षादाकाररहिता परं तस्या अपि रेखारूप आकारः कल्प्यते या चाज्ञा सापि अमूर्तस्य भगवदादेः स्वामिनः प्रतापस्य सम्बन्धिनी तेन पूर्व भगवदादिप्रतापोऽमूर्तः अमूर्तस्याप्यस्यामूर्ती आज्ञा अस्या अपि अमूर्तीया रेखारूप आकार सद्भिः कल्पितः इत्यर्थः । ४२ स्वामिसम्बन्धिनी । ४३ उक्तोक्ता। ४४ रेखा।