________________
( ११७.)
प्राज्ञा य एते गदिताः पदार्थास्ते सर्व आकारयुता भवन्ति । अतस्तदीयाकृतिमन्तरात्मनः कृत्वार्चयन्तेऽत्र तदीयबिम्बम् ॥ ३८ ॥ आकारमुक्तो भगवान्प्रसिद्धस्ततस्तदीयं प्रतिबिम्बमेतत् । कृत्वा कथं पूज्यत एवमत्र दोषस्वतद्वस्तुनि तद्ग्रहो यः ॥ ३८ ॥ साधूच्यतेऽदस्त्वयका विचारिणा ऽनाकारिणस्त्वाकृतिरेव नेष्टा । इदं तु यद्भागवतं हि बिम्ब तचावताराकृतिक्लृप्तरूपम् ॥ ४० ॥ यादृक्तु संसारकृतावतारो ऽभून्यासि तादृग्भगवान्महद्भिः । या या ह्यवस्था रुचिता च येभ्यः साऽहो तदर्थैः परिपूज्यते तैः ॥ ४१ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनःस्थिरीकारे नास्तिकस्याजीवरूपस्थापनासेवाफलप्रतिपादनोक्तिलेशो
सप्तदशोऽधिकारः।
३७ अभगवति भगवानयं इति या बुद्धिः ।