________________
' ( १०५ ) द्विधापि धर्मं गृहिणः श्रयन्त्वमी ॥ २३ ॥ प्रायेण सावधरता गृहस्थाः सदैहिकार्थाधिकृतौ प्रसक्ताः। कुटुम्बपोषाहतभूरिसङ्घयोचनीचवार्ताः परतन्त्रखिन्नाः ॥ २४ ॥ तेऽमी स्वचेतःप्रतिभॊतपुण्यकार्योद्यता आत्मरुचिप्रवृत्ताः ।, यदेव ते स्वीयमनोऽभितुष्ट्यै कुर्वन्ति पुण्यं किल कुर्वतां तत् ॥ २५ ॥ एते गृहस्था हृदये विदध्युरितीव सङ्कल्प्य च द्रव्यधर्मम् । द्रव्येण कर्माणि समाचरय्य यथा मनस्तुष्टिमिदं निधत्ते ॥ २६ ॥ तथैव धर्माण्यपि कानिचिच्चेद् द्रव्येण कृत्वा स्वमनः प्रसन्नम् । कुर्मोऽत्र येनैव गृहस्थसत्को व्यापार एष द्रविणेन सिध्येत् ॥ २७ ॥
एषां यतो द्रव्यवतां स्वधर्म - ९७ आजीविकाः । ९८ पारवश्येन खेदवन्तः । ९९ मानित ६०० पुण्यादि