________________
(१०४) तत्पीतये ते ऽपि गुणानिमाननुयान्ति विज्ञाः परब्रह्मलिप्सवः ॥ १९ ॥ साधो गृहस्था अपि देशतो ऽमी श्रयन्त्वमूनेव गुणांश्चिराय । परन्तु यत्कर्मणि जीवहिंसा श्रयन्ति चेत्तन्नवरं तदेषाम् ॥ २० ॥ सत्यं गृहस्थाः खलु ते भवन्ति । पायो हि ते स्थूलधियोतिचिन्ताः । आरम्भवन्तश्च परिग्रहादराः सूक्ष्मेक्षिकालोकनकुण्ठेबुद्धयः ॥ २१ ॥ एते विनालम्बनमत्र तत्त्वत्रये विमुह्यन्ति ततः शुभार्थम् । साकारपूजां धृतसाधुवेषसेवां च दानादि सृजन्तु नित्यम् ॥ २२ ॥ उच्चैः कुलाचारयशोऽवनार्थ · .. श्रितो गृहस्थैः सँकलो ऽपि धर्मः।
तद् द्रव्यतो भावत आत्मसम्पदे भजन्ते तेऽपि । ८९ परमेश्वरप्रीतये । ९० अधिकचिन्ताः । ९१ दृष्टि । ९२ वठर । ९३ आलम्बनमाश्रय आधारो वेत्याघेकार्थाः । १४- साकारजिनप्रतिमायां-- साधुवषे. प्रतिलेखनाप्रमार्जनादानादि. कर्तव्ये च-द्रव्यधर्मत्रये । ९५ रक्षणाय । ९६ द्रव्यभावभिन्नः।