________________
( १०६ )
द्रव्येण सार्द्धं भवतीह चेतः । युक्तं ह्यदो यस्य वलं यदीयं बलेन तेनैव मतं निजं क्रियात् ॥ २८ ॥ तद्रव्यधर्म गृहिणां प्रकुर्वतां संसारकार्यान्मनसोऽस्तु संवृतिः यथा तथैते दधतां मनः स्वकं सालम्बने पुण्यविधावपेक्षणम् ॥ २९ ॥ तद्यावतामी निजकेन्द्रियाणि संवृत्य संसारर्भवक्रियातः । तदेव पूजादिकमाश्रयन्तां
मनः स्थिरं येन मनागपि स्यात् ॥ ३० ॥ यावत्त्वनाकारपदार्थचिन्ता -
कृतौ मनो न क्षममस्ति तद्वैत् । सुसाध्वसाधुप्रतिपत्तियोग्यो ज्ञानोदयो यावदहो भवेन्नो ॥ ३१ ॥ तावत्स्वकीयव्यवहाररक्षा कार्या कुलीनेन सनिश्चयेन |
पृष्ठ १०६ लिटि ७ “ सालम्बने " उपर पर्याय.
* साकारजिनपूजायां साधुवेषे प्रतिलेखनाप्रमार्जनादानादि
कर्त्तव्ये च द्रव्यधर्मत्रये ।