________________
( ८९) इत्यादिशब्देषु न चेष्टयाऽपि । केचित्सुधीभिः प्रतिपादनीयाः॥ ५ ॥ किन्त्वेकतः सत्पदतः प्ररूप्याः तथैककर्णेन्द्रियग्राह्यवर्णाः। स्वस्वस्वभावोत्थिततत्तथाविधफलानुमेयाः किल केवलीक्ष्याः॥६॥ ये सन्ति शब्दास्तु पदयादिना संयोगजास्ते भुवि सन्ति वा नो। यथा हि वन्ध्यास्ति सुतोऽपि चास्ति वन्ध्यासुतश्चेति न युक्तशब्दः ॥ ७॥.. एवं नभःपुष्पमरीचिकाम्भःखरीविषाणप्रमुखा अनेके। एतादृशा ये किल सन्ति शब्दाः संयोगजास्ते किल नैव युक्ताः ॥८॥ कर्णेन्द्रियग्राह्यतयापि नैषा सत्तास्ति तन्नेन्द्रियगोचरः सैन् । केचित्तु संयोगभवा हि शब्दाः सन्त्येव ते तदिरहो न प्रायः॥ ९॥ यथाहि गोशृङ्गनरेन्द्रकञ्जा२५ सत्यः।