________________
(८८) अथ चतुर्दशोधिकारः
viram अतो य एतन्मनुते वदावदः प्रत्यक्षमेकं हि मम प्रमाणम् । तचिन्त्यमानं न विवेकचक्षुषाम् शक्तं भवेत्सर्वपदार्थसिद्धयै ॥ १ ॥ किं तर्हि सत्यं निजगाद नास्तिकस्तदुत्तरं यच्छतु शुद्धमास्तिकः । यदेकशब्देन निगद्यमानं तत्सत्पदं प्राहुरिति प्रवीणाः ॥ २ ॥ तविद्यते यन्ननु सत्पदेन वाच्यं भवेदस्तु तदत्र किं स्यात् । यच्छब्दजातं गदितं पुरैव तथा पुनः किंचिदनूच्यतेऽत्र ॥३॥ कालः स्वभावो नियतिः पुराकृतं तथोद्यमः प्राणमनोऽसुमन्तः । आकाशसंसारविचारधर्माधर्माधिमोक्षा नरको लोकौ ॥ ४ ॥ विधिनिषेधः परमाणुपुद्गलः कर्माणि सिद्धाः परमेश्वरस्तथा ।