________________
( ९० ) वनीरुहागोपतिभूधराद्याः। संयोगजाः सन्ति वियोगतश्च ।। . . . शब्दा अनेके विबुधैर्विवेच्याः ॥१०॥ श्रोत्राक्षिमुख्येन्द्रियरूपाह्ये . परन्त्वतन्नामनि तस्य नाम्नि । . . . अर्थे तथान्याश्रितरूपवेषके , .. ! ज्ञानं न नेत्रश्रवसोस्तदर्थकृत् ॥ ११ ॥ यथा सिताभ्रादिसुगन्धिवस्तुषु ..., श्रोत्राक्षिनासारसनासमुत्थं । .. ज्ञानं यदप्यस्ति तथापि केषुचितेषु प्रमाणं रसनावबोधनम् ॥ १२ ॥ स्वर्णादिके वस्तुनि कर्णनेत्र- . . . . ज्ञानं स्फुरत्येव तथापि तंत्र । ... निघर्षणादिप्रभवो ऽवबोध-. .. स्तदर्थसत्याय न केवलाक्षम् ॥ १३ ॥ : .
२६ वस्तुनि । २७ लवणादिखण्डे । २८.कर्पूरादेन मनि पदार्थे इत्यर्थः । २९ सत्स्वपीन्द्रियेषु इन्द्रियज्ञानात् निघर्षणच्छेदनतापताडनोत्यपरीक्षाभवं यत् ज्ञानं तदेव स्वर्णादिसत्यतासम्पादकं स्यात् नहि स्वर्णशब्दे श्रुते चक्षुभ्यो स्वर्णवर्णे च दृष्टे स्वर्ण सत्यमिति वक्तुं शक्यते किन्तु निघर्षणादिभवेन तश्चकषपट्टलोहाग्न्यादिहेतुजं -तत्संयोगानन्तर-. मेव तत्रेन्द्रियगोचरप्रवृत्तिर्न स्वतस्तत्मागेवेति विचार्यम् ।
-
-