________________
जैन सिद्धान्त दीपिका
१५. 'परायवण्डपोतषानां गर्भः।
जरायुजा:--नृ-गवाद्याः । अण्डजा:-पक्षि-सर्पाद्याः । पोतजाः कुञ्जर-शणकादयः ।
१६. देवनारकाणामुपपातः ।।
१७. शेषाणां समूच्र्छनम् ॥
१८. 'सचित्ताऽचित्त'-शीतोष्ण-संवृत-विवृतास्तन्मिश्राश्चयोनयः ।
योनि :-उत्पत्तिस्थानम् : तन्मिश्रा:- सचित्ताचित्ताः, शीतोष्णाः, संवृतविवृताः।
१. यज्जालवत् प्राणिपरिवरणं विततमांसशोणितं तज्जरायुः, तत्रजाता
जरायुजाः । २. पोता एव जाता इति पोतजाः शुद्धप्रसवा: न जरायवादिना वेष्टिता
इति यावत् । ३. जीवत् शरीरम्। ४. शीतस्पर्शवत् । ५. दिव्यशय्यादिवत्। ६. जलासयादिवत् ।