________________
१४.
जैन सिद्धान्त दीपिका
७. संयताऽसंयतो देशविरतः।
देशेन-अंशरूपेण व्रताराधक: इत्यर्थः । पूर्णवताभावेऽविरतोऽप्यसी कप्यते ।
८. प्रमादयुक्तः सर्वविरतः प्रमत्तसंयतः ।
प्रमादाश्रवो न संयमावरोधकः, प्रवृत्तिरूपश्च प्रमात: स एवात्र विवक्षितो यो मलोत्पादको न तु संयमविनाशकः ।
६. प्रमादवियुक्तो ध्यानलीनः अप्रमत्तसंयतः।
१०. निवृत्तियुक्तो बादरकषायो निवृत्तिबादरः ।
निवृत्तिः–समसमयवतिजीवानां परिणामविशुदेविसदृशता'। बादर: स्थूलः ।
इदमपूर्वकरणमपि उच्यते।
१. निदेन वृत्तिः निवृतिः। २. निवृत्तिवादरजीवस्थाने भिन्नसमयपतिजीवानां परिणाम-विशुद्धिविसदृशी भवति, समसमपतिजीवानां च विसदृशी सदृशी पाऽपि।
(षट्वंसगम १, पृ० १८४)