________________
आचार्य जिनसेन और उनका हरिवंश
જરૂર
स पद्मसेनो गुणपद्मखंडभृद्गुणाग्रणीर्व्याघ्रपदादिहस्तकः । स नागहस्ती जितदंडनामभृत्स नंदिघेणः प्रभुदीपसेनकः ॥ २७ ॥ तपोधनः श्रीधरसेननामकः सुधर्मसेनोऽपि च सिंहसेनकः । सुनन्दिषेणेश्वरसेनको प्रभू सुनन्दिप्रेणाभयसेननामकौ ॥ २८ ॥ स सिद्धसेनोऽभयभीमसेनको गुरू परौ तौ जिनशान्तिषेणको । अखंडषट्रखंडमखंडितस्थितिः समस्तसिद्धान्तमधत्त योऽर्थतः ॥ २९ ॥ दधार कर्मप्रकृतिं च श्रुतिं च यो जिताक्षवृत्तिर्जयसेनसद्गुरुः । प्रसिद्धवैयाकरणप्रभाववानशेषराद्धान्तसमुद्रपारगः ॥ ३० ॥ तदीयशिष्योऽभितसेनसद्गुरुः पवित्र पुन्नाटगणाग्रणीगणी । जिनेन्द्रसच्छासनवत्सलात्मना तपोभृतावर्षशताधिजीविना ॥ ३१ ॥ सुशास्त्रदानेन वदान्यतामुना वदान्यमुख्येन भुवि प्रकाशिता । यदग्रजो धर्मसहोदरः शमी समग्रधीधर्म इवात्तविग्रहः ।। ३२ ॥ तपोमयीं कीर्तिमशेषदिक्षु यः क्षिपन्बभौ कीर्तितकीर्तिषणकः । तदनशिष्येण शिवाग्रसौख्यभागरिष्टनेमीश्वरभक्तिभूरिणा स्वशक्तिभाजा जिनसेनसूरिणा धियाल्पयोक्ता हरिवंशपद्धतिः॥ ३३ ॥
शाकेष्वन्दशतेषु सप्तसु दिशं पंचोत्तरेयूत्तरां,
पातीन्द्रायुधनाम्नि कृष्णनृपजे श्रीवल्लभे दक्षिणां । पूर्वो श्रीमदवन्तिभूभृति नृपे वत्सादिराजेऽपरां,
सौराणामधिमंडलं जययुते वीरे वराहेऽवति ।। ५३ ॥ कल्याणैः परिवर्धमानविपुल श्रीवर्धमाने पुरे,
श्रीपालयनन्नराजवसतौ पर्याप्तशेषः पुरा । पश्चाद्दोस्तटिकाप्रजाप्रजनितप्राज्यार्चनावर्चने (?)
___शान्तः शान्तिगृहे जिनस्य रचितो वंशो हरीणामयम् ॥ ५४ ।। व्युत्सृष्टापरसंघसन्ततिबृहत्पुन्नाटसंघान्वये
प्राप्तः श्रीजिनसेनसूरिकविना लाभाय बोधे पुनः । दृष्टोऽयं हरिवंशपुण्यचरितश्रीपर्वतः सर्वतो व्याप्ताशामुखमण्डलः स्थिरतरः स्थेयात्पृथिव्यां चिरम् ॥ ५५ ॥
-सर्ग ६६