________________
४३२
जैनसाहित्य और इतिहास
इंद्रचंद्रार्कजैनेन्द्रव्याडिव्याकरणक्षिणः । देवस्य देववन्यस्य न वन्द्यते गिरः कथं ॥ ३१ ॥ वज्रसूरेविचारिण्यः सहेत्वोर्बन्धमोक्षयोः । प्रमाण धर्मशास्राणां प्रवक्तृणामिवोक्तयः ॥ ३२ ॥ महासेनस्य मधुरा शीलालंकारधारिणी। कथा न वर्णिता केन वनितेव सुलोचना ॥ ३३ ॥ कृतपद्मोदयोद्योता प्रत्यहं परिवर्तिता । मूर्तिः काव्यमयी लोके वेरिव रवेः प्रिया ।। ३४ ।। वराङ्गनेव सर्वाङ्गैर्वराङ्गचरितार्थवाक् । कस्य नोत्पादयेद्गाढमनुरागं स्वगोचरं ।। ३५ ।। शान्तस्यापि च वकोक्ती रम्योत्प्रेक्षाबलान्मनः। कस्य नोद्घाटितेऽन्वर्थे रमणीयेऽनुरंजयेत् ।। ३६ ॥ योऽशेषोक्तिविशेषेषु विशेषः पद्यगद्ययोः । विशेषवादिता तस्य विशेषत्रयवादिनः ।। ३७ ॥ आकुपारं यशो लोके प्रभाचन्द्रोदयोज्ज्वलम् । गुरोः कुमारसेनस्य विचरत्यजितात्मकम् ॥ ३८ ।। जितात्मपरलोकस्य कवीनां चक्रवर्तिनः ।
वीरसेनगुरोः कीर्तिरकलंकावभासते ॥ ३९ ॥ यामिताभ्युदये पार्श्वजिनेन्द्रगुणसंस्तुतिः।। स्वामिनो जिनसेनस्य कीर्तिः संकीर्तयत्यसौ ।। ४० ॥
-प्रथम सर्ग
त्रयः क्रमाकेवलिनो जिनात्पेर द्विषष्टिवर्षान्तरभाविनोऽभवन् । ततः परे पंच समस्तपूर्विणस्तपोधना वर्षशतान्तरे गताः ।। २२ ॥ व्यशीतिके वर्षशतेऽनुरूपयुग्दशैव गीता दशपूर्विणः शते । द्वये च विंशेऽङ्गभृतोऽपि पंच शते च साष्टादशके चतुर्मुनिः ॥ २३ ॥ गुरुः सुभद्रो जयभद्रनामा परो यशोबाहुरनन्तरस्ततः महाहलोहार्यगुरुश्च ये दधुः प्रसिद्धमाचारमहाङ्गमत्र ते ॥ २४ ॥ महातपोभृद्विनयंधरः श्रुतामृषिश्रुतिं गुप्तिपदादिकां दधन् । मुनीश्वरोऽन्यः शिवगुप्तिसंज्ञको गुणैः स्वमर्हद्वलिरप्यधात्पदम् ॥ २५ ॥ समंदरार्योऽपि च मित्रवीरविं (?) गुरू तथान्यौ बलदेवमित्रको । विवर्धमानाय त्रिरत्नसंयुतः श्रियान्वितः सिंहबलश्च वीरवित् ॥ २६ ॥