SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [७.० गण्डब्यूहसूत्रम्। बुद्धैः समतानुगतः, सर्वबोधित्तत्त्वैरनुमोदितः, सर्वारभिनन्दितः, सर्वब्रह्मेन्द्रः पूजितः, सर्वदेवन्द्ररारक्षितः, नर्वयक्षेन्द्ररपचितः, सर्वराक्षसेन्द्रः प्रत्युद्गतः, सर्वनागेन्द्रैरभिष्टुतः, सर्वकिनरन्द्रः संवर्णितः, सर्वलोकेन्द्ररन्वेपितः, सर्वलोकधातुत्रिविधापायगतिसमुच्छेदाय सर्वा क्षणदुर्गतिपथविनिवर्तनताये सर्वदारिद्यपथसमतिक्रमाय देवमनुष्यसंपत्प्रतिलाभाय कल्याण5 मित्रसंदर्शनाविप्रवासाय उदारवुद्धधर्मश्रवाविकाराय बोधिचित्ताशयपरिशोधनाय बोधिचित्तहेतुसंभवसमुदयाय बोधिसत्त्वमार्गावभासप्रतिलाभाय बोधिसत्त्वज्ञानानुगमाय बोधिसत्त्वभूम्यवस्थानाय । तस्य मम कुलपुत्र एवं भवति-दुष्करकारका बोधिसत्त्वा दुर्लभदर्शनप्रादुर्भावा आश्वासका लोकस्य । मातापितृभूता बोधिसत्त्वाः सर्वसत्त्वानाम् । अलंकारभूता बोधिसत्त्वाः सदेवकस्य लोकस्य । प्रतिशरणभूता बोधिसत्त्वा 10 दुःखादितानान् । लयनभूता बोधिसत्त्वाः सर्वजगदारक्षायै । प्राणभूता बोधिसत्त्वा विविधभयोपद्वाणाम् । वातमण्डलीभूता वोधिसत्त्वाः सर्वजगत्र्यपायप्रपातसंधारणतया। धरणीभूता बोधितत्त्वाः सर्वतत्त्रकुशलमूलविवर्धनतया । सागरभूता बोधिसत्त्वाः अक्षयपुण्यरत्नकोशगर्भतया । आदित्यभूता बोधिसत्त्वाः ज्ञानालोकावभासकरणतया । सुमेरुभूता बोधिसत्त्वाः कुशलमूलीभ्युद्गततया । चन्द्रभूता बोधिसत्त्वाः बोधिमण्डज्ञानचन्द्रोदागमनतया । शूरभूता 15 वोधिसत्त्वाः सर्वमारसैन्यप्रमर्दनतया । वीरभूता बोधिसत्त्वाः खयंभूधर्मनगरानुप्राप्तये । तेजोभूता बोधिसत्त्वाः सर्वसत्त्वात्मस्नेहपर्यादानतया । मेघभूता बोधिसत्त्वाः विपुलधर्ममेघाभिसंप्रवर्षणतया । वृष्टिभूता बोधिसत्त्वाः श्रद्धादिसत्त्वेन्द्रियाङ्करविवर्धनतया । दाशभूता बोधिसत्त्वाः धर्मसागरतीर्थप्रदर्शनतया । सेतुभूता बोधिसत्त्वाः सर्वसत्त्वसंसारसमुद्र संतारणतया । तीर्थभूता बोधिसत्त्वाः सर्वसत्त्वाभिगमनतया ॥ 20 इति हि मेघो द्रमिडः सुधनस्य श्रेष्ठिदारकस्य पुरत एभिर्वचनपदैर्बोधिसत्त्वान् संवर्ण्य सुधनस्य श्रेष्ठिदारकस्य साधुकारमदात् । तस्येमा बोधिसत्त्वसंहर्षणी वाचमुदीरयतो मुखद्वारात्तथारूपोऽर्चिःस्कन्धो निश्चचार, येनार्चिःस्कन्धेन साहस्रो लोकधातुः स्फुटोऽभूत् । ये च सत्त्वास्तमवभासं संजानन्ति स्म, देवमहर्द्धिका वा देवा वा, नागमहर्द्धिका वा नागा वा, यक्षमहर्द्धिका वा यक्षा वा, गन्धर्वमहर्द्धिका वा गन्धर्वा वा, असुरमहर्द्धिका वा 25 असुरा वा, गरुडमहर्द्धिका वा गरुडा वा, किन्नरमहद्धिका वा किनरा वा, महोरगमहर्द्धिका वा महोरगा वा, मनुष्यमहर्द्धिका वा मनुष्या वा, अमनुष्यमहर्द्धिका वा अमनुष्या वा, ब्रह्ममहद्धिका वा ब्रह्माणो वा, ते तेनावभासेनावभासिताः सन्तो मेघस्य द्रमिडस्यान्तिकमुपसंक्रामन्तः एतेषां मेधेन द्रमिडेनाधिष्ठिताशयानां कृताञ्जलिपुटानां ह्लादितकायचित्तानाम् उदार प्रामोद्यजातानां महागौरवस्थितानां निहतमारध्वजानां मायाशाठ्यापगतानां विप्रसन्नेन्द्रियाणां 30 मेघो द्रमिडस्तमेव चक्राक्षरपरिवर्तव्यूहं धर्मपर्यायं विस्तरेण संप्रकाशयति प्रवेदयति, प्रवेशयति, नयति, अनुगमयति, यं श्रुत्वा सर्वे तेऽविनिवर्तनीया अभूवन् अनुत्तरायां सम्य १Bom. सर्वराक्षसेन्द्रः. प्रत्युद्गतः. २S आश्वासितः. ३ B °मूलात्युनततया. . 875
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy