________________
S 73
७ मेषः । अथ खलु सुधनः श्रेष्ठिदारकत्तं धर्मालोकननुस्मरन् धर्मप्रसादवेग विष्टः बुद्धानुगतसंज्ञामनसिकारः त्रिरत्नवंशानुपच्छेदप्रयुक्तः कल्याणमित्राग्यनुन्मरन् यवलोकात्रभानितचित्तो महाप्रणिधानानुगतमनस्कारः सर्वसत्त्वधातुपरित्रागयोगप्रसृतः सर्वसंस्कृतरत्यनिश्चितचित्तो विरागवंशमुदीरयन् सर्वधर्मस्वभावनिध्यप्तिपरमः सर्वलोकधातुपरिशुद्धिप्रणिध्यनुचलितः । सर्ववुद्धपर्षन्मण्डलानिश्रितविहारी अनुपूर्वेण वज्रपुरं नाम द्रमिडपट्टनमुपसंक्रम्य मेघं द्रमिडं पर्येपन् अद्राक्षीत् मध्येनगरं शृङ्गाटके धर्मसांकध्याय सिंहासने निषण्णं दशानां प्राणिसहस्राणां चक्राक्षरपरिवर्तव्यूह नाम धर्मपायं संप्रकाशयमानम् ॥
___अथ खल सुधनः श्रेष्ठिदारको मेघत्य द्रमिडस्य पादौ शिरसाभिवन्ध मेघ द्रमिडमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां 10 सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि-कथं वोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् ? कथं प्रतिपत्तव्यम् ? कथं बोधिसत्त्वस्य बोधिसत्त्वबोधिचित्तोत्पादो न प्रणश्यति ? सर्वभवगतिषु कथमाशयो दृढीभवत्यपरिखेदतया ? कथमच्याशयः परिशुद्धयत्यनवमद्यतया ? कथं महाकरुणावलं संजायते अपरिखेदतया? कथं धारणीवलमाक्रामति समन्तमुखविशुद्धतया? कथं प्रज्ञालोकः संजायते सर्वधर्मवितिमिरालोकः सर्वाज्ञानतिमिरपटविकिरणतया ? 15 कथं प्रतिसंविद्वलमाक्रामति अर्थधर्मनिरुक्तिप्रतिभानकौशलखरमण्डलपरिपूरये ? कथं स्मृतिवलमाक्रामति सर्वबुद्धधर्मचक्रासंभिन्नसंधारणतया ? कथं गतिबलं विशुध्यति सर्वधर्मदिग्गल्यालोकानुगमनुगमनतया ? कथं वोधिसत्त्वस्य समाधिवलं निष्पद्यते सर्वधर्मार्थनिश्चयप्रभेदपरमतया ? __अथ खलु मेघो द्रमिडो बोधिसत्त्वगौरवेण ततः सिंहासनादुत्थाय अवतीर्य सुधनस्य 20 श्रेष्ठिदारकस्य सर्वशरीरेण प्रणिपत्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पराशिना अभ्यवकिरत् । अनर्धेश्च मणिरनेरुदारचन्दनचूर्णैश्चाभिप्राकिरत् । नानाचित्ररङ्गरकैश्च अनेकैर्वस्त्रशतसहस्ररभिच्छादयामास । अनेकैश्च नानावणे रुचिरैमनोरमैर्गन्धपुष्पैरभ्यवकीर्य अभिप्रकीर्य अन्यैश्च विविधैः पूजाप्रकारैः पूजयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादि- 25 तम् । येन कुलपुत्र अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् , स सर्वबुद्धवंशस्यानुपच्छेदाय प्रतिपन्नो भवति विरागवंशस्य यथावद्विज्ञप्तयेऽभियुक्तः, सर्वक्षेत्रवंशस्य परिशुद्धये प्रतिपन्नः, सर्वसत्त्ववंशस्य परिपाकविनयाय प्रत्युपस्थितः, सर्वधर्मवंशस्य यथावन्निस्तीरणाय प्रयुक्तः, सर्वकर्मवंशस्याविरोधाय स्थितः, सर्वबोधिसत्त्वचर्यावंशस्य परिपूरये प्रयुक्तः, सर्वप्रणिधानवंशस्याव्यवच्छेदाय संप्रस्थितः, सर्वत्र्यध्ववंशस्य ज्ञानानुगमाय प्रतिपन्नः, अधि-90. मुक्तिवंशस्य दृढीकरणायोयुक्तः, साधिष्ठितो भवति सर्वतथागतमण्डलेन समन्वाहृतः, सर्व
B29
१ B सर्वसत्त्वस्वभाव. २ B द्रविड° throughout. ३ S om. बोधिसत्त्वस्य.