________________
५८
गण्डव्यूहसुत्रम् ।
[६.०पस्थानप्रयोग सर्वसत्त्वपरिपाकानुकूलमसङ्गमुखं बोधिसत्त्वविमोक्षं प्रजानामि । किं मया शक्यं बोधिसत्त्वानां महातत्त्वानां महाकरुणाशीलानां महायानप्रतिपत्तिशीलानां बोधिसत्त्वनागाविप्रवासशीलानामसङ्गशीलानां बोधित्तत्त्वाशयगर्भाविपातनशीलानां वोधिचित्तापरिलागशीलानां बुद्धधर्मायालम्बनशीलानां संवैज्ञताननसिकाराविप्रवसितशीलानां गगनसम5 शीलानां सर्वलोकानिधितशीलानामविनष्टशीलामनुपहतशीलानामखण्डशीलानामच्छिद्रशीलानानशवलशीलानानकल्मापशीलानां विशुद्धशीलानां विरजोनिर्मलशीलानां वोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुन् ॥
___ गच्छ कुलपुत्र, इहैव दक्षिणापथे वत्रपुरं नाम द्रमिडंपट्टनम् । तत्र मेघो नाम द्रमिडः प्रतिवसति । तनुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वचर्यायां 10 शिक्षितव्यन् , कथं प्रतिपत्तव्यम् ।।
___ अथ खलु सुधनः श्रेष्टिदारकः सुप्रतिष्ठितस्य भिक्षोः पादौ शिरसाभिवन्ध सुप्रतिष्टितं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सुप्रतिष्ठितस्य भिक्षोरन्तिकात् प्रक्रान्तः ॥ ४॥
१ B adds विगतकौकृत्यशीलानां. २ B द्रविड throughout.