________________
S 71
-६०]
६ सुप्रतिष्ठितः। दक्षिणां पश्चिनानुत्तरानुत्तरपूर्वा पूर्वदक्षिणां दक्षिणपश्चिनां पश्चिमोत्तरामध उनिवि दिशं निर्यामि । एकैकेन चित्तक्षणेन पूर्वत्यां दिशि एक लोकधातुमतिक्रनामि । द्वापनि दशापि लोकधातुशतमपि लोकधातुसहन्ननपि लोकधातुशतसहस्रमपि लोकवानुकोटीनपि लेोकयानुकोटीशतमपि लोकधातुकोटीसहनमपि लोकधातुकोटीशतसहननारे लोकवानुकोटीनियुतशतसहस्रमपि, अपरिमाणानपि लोकधातूनप्रमेयान् , असंख्येयानपि अचिन्त्यानपि । अतुल्यानपि अमाप्यानपि असमन्तानपि अपर्यन्तानपि असीनापातानपि अनभिलाप्यानभिलाप्यानपि लोकधातूनतिक्रमामि । ये च तेषु लोकधातुषु वुद्धा भगवन्तस्तिष्ठन्ति । ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु, तेषु तेषु लोकधातुप्रसेरघु, तासु तासु लोकधातुदिक्षु, तेपु तेषु लोकधातुपरिवर्तेषु, तेषु तेषु लोकधानुसनवसरणेषु, तेषु तेषु लोकधानुसंभवेषु, तेषु तेषु लोकधातुनिर्देशेषु, तेषु तेषु लोकधानुद्वारेषु, तेषु तेषु लोकयानुकल्पनिर्दे- 10 शेषु, तेषु तेषु लोकधात्ववतारेपु, तेषु तेषु लोकधातुबोधिमण्डव्यूहेषु, तेषु तेषु लोकधातुपर्षन्मण्डलेषु ये बुद्धा भगवन्तो धर्म देशयन्ति, तेषां तथागतानामेकैकं तथागतमनन्तबुद्धक्षेत्रपरमाणुरजःसमैः कायनानात्वैरेकैकेन कायेन अनन्तबुद्धक्षेत्रपरनाणुरजःसमैः पूजामेधैः प्रवर्षन्नुपसंक्रमामि । उपसंक्रम्य पूजां करोम्यप्रतिप्रस्रब्धः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सर्वविलेपनैः सर्ववस्त्रैः सर्वध्वजैः सर्वपताकाभिः सर्ववितानैः सर्वजालैः सर्वविग्रहैः । यच्च 15 ते बुद्धा भगवन्तो भाषन्ते देशयन्ति उदीरयन्ति संप्रकाशयन्ति संवर्णयन्ति परिदीपयन्ति । उपदिशन्ति निर्दिशन्ति प्रभावयन्ति, तत्सर्वमाजानामि, उद्गृह्णामि । या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि । यथा पूर्वस्यां दिशि, एवमेव दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामव ऊर्ध्वायां दिशि एकमपि लोकधातुमतिक्रमामि । द्वावपि दशापि लोकधातुशतमपि यावदनभि- 20 लाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि लोकधातूनतिक्रमामि । ये च तेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषु तेषु लोकधातुसमुद्रेषु तासु तासु लोकधातुविशुद्धिषु, यावत् तेषु तेषु लोकधातुषु पर्जन्मण्डलेषु धर्म देशयन्ति, तान् सर्वान् पश्यामि । तेषां च तथागतानां पूजां करोमि सर्वपुष्पैर्यावत्सर्वपरिग्रहैः । यच्च ते बुद्धा भगवन्तो भाषन्ते यावअभावयन्ति तत्सर्व- 25 माजानामि उद्गृह्णामि । या च तेषां बुद्धानां भगवतां बुद्धक्षेत्रपरिशुद्धिस्तां सर्वामनुस्मरामि । येषां च सत्त्वानामाभासमागच्छामि, यैः समागच्छामि, ते सर्वे नियता भवन्त्यनुत्तरायां सम्यक्सबोधौ । ये च सत्त्वा ममाभासमागच्छन्ति, सूक्ष्मा वा उदारा वा हीना वा प्रणीता वा सुखिता वा दुःखिता वा, तेषां सर्वेषां तव्यमाणं कायमधितिष्ठामि परिपाकविनयकालानतिक्रमणतायै । ये च सत्त्वा मामुपसंक्रामन्ति तान् सर्वानत्रैव समन्तजवेऽमोघविक्रम- 30 पर्यवसाने बोधिसत्त्वविमोक्षे प्रतिष्ठापयामि । एतमहं कुलपुत्र समन्तजवं तथागतपूजो
B8
S 72
१B om. लोकधातुनिर्देशेष.
गण्ड.८