________________
गण्डन्यूहसूत्रम् । र म आर्यो कोधितत्त्वानामवादानुशासनी ददातीति । तद्वदतु मे आर्य:-कथं बोधिसत्वेन बुद्धधर्नेषु प्रयोक्तव्यन् , यथा प्रयुज्यमानोऽविरहितो भवति वुद्धदर्शनेन, यथाभूताविप्रवासाय अविरहितो भवति बोधिसत्त्वदर्शनेन । सर्वबोधिसत्त्वकुशलमूलैकध्यातायै अविरहितो भवति बुद्भवः । ज्ञानानुगमायाविरहितो भवति सर्वबोधिसत्त्वप्रणिधानैः । 5 सर्वबोधिसत्वकार्यपरिप्रापणाव अविरहितो भवति बोधिसत्त्वचर्यया । सर्वकल्पसंवासापरि
खेदताय अविरहितो भवति सर्वयुद्धक्षेत्ररकरणेन । सर्वलोकधातुपरिशुद्धये अविरहितो भवति बुद्धविकुर्वितदर्शनेन । सर्वतथागतविकुर्वितविज्ञप्त्यै अविरहितो भवति संस्कृतावासेन । निनितोपनबोधिसत्त्वचर्यायाः सर्वभवगतिच्युत्युपपत्त्यायतनवशरीरानुगमनतायै
अविराहतो भवति धर्मश्रवणेन । सर्वतथागतधर्ममेघसंप्रतीच्छनतायै अविरहितो भवति 10 ज्ञानालोकेन त्र्यध्वज्ञानानुगमानुसरणतायै ॥
एवनुक्ते सुप्रतिष्ठितो भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बुद्धधर्मान् सर्वज्ञताधर्मान् स्वयंभूधर्मान् परिपृच्छसि । अहं कुलपुत्र असङ्गमुखस्य वोधिसत्त्वविमोक्षस्य लाभी। एतं मे कुलपुत्र
असङ्गमुखं बोधिसत्त्वविमोक्षमायूहता नियूहता अनुसरता विभजता विचिन्वता प्रविचिन्वता 15 प्रतिभासयता प्रभासयता असङ्गकोटि म ज्ञानालोकः प्रतिलब्धः, यस्य प्रतिलम्भान्नास्ति __ मे सर्वसत्त्वचित्तचरितावभासेपु सङ्गः । नास्ति सर्वसत्त्वच्युत्युपपत्तिपरिज्ञासु सङ्गः । नास्ति
पूर्वनिवासानुस्मृतिनुखावतारेषु सङ्गः । नास्त्यपरान्तकल्पसर्वजगत्संवासेषु सङ्गः । नास्ति प्रत्युत्पन्नाध्वसर्वजगद्विज्ञप्तिषु सङ्गः । नास्ति सर्वसत्त्वरुतमन्त्रसंवृतिपरिज्ञानेषु सङ्गः । नास्ति
सर्वसत्त्वसंशयच्छेदेषु सङ्गः । नास्ति सर्वसत्त्वेन्द्रियसभेदावतारेषु सङ्गः । नास्ति सर्वसत्त्व20 परिपाकविनयकालोपसंक्रमणेषु सङ्गः । नास्ति रात्रिंदिवक्षणमुहूर्तकालसंज्ञागतावतारेषु सङ्गः ।
नास्ति दशदिग्बुद्धक्षेत्रेषु अशरीरस्फरणतासु सङ्गः, यदुत अभावप्रतिष्ठितानभिसंस्कारविप्रतिलम्भेन । अस्याहं कुलपुत्र अनभिसंस्कारिकाया ऋद्धरनुभावेन इह गगनतले चक्रमामि, तिष्ठामि, निषीदामि, निषद्यामि, विविधानीर्यापथान् कल्पयामि, अन्तदर्धामि प्रादुर्भवामि, धूमायामि प्रज्वलामि । एको भूत्वा बहुधा भवामि, बहुधा भूत्वैको भवामि । 25 आविर्भावं तिरोभावं प्रत्यनुभवामि । तिरःकुड्यं तिरःप्राकारमसज्जन् गच्छामि तद्यथापि नाम आकाशे । आकाशेऽपि पर्यङ्केन क्रमामि तद्यथापि नाम पक्षी शकुनिः। पृथिव्यामपि उन्मजननिमज्जनं करोमि तद्यथोदके । उदकेऽप्यसज्जमानो गच्छामि तद्यथा पृथिव्याम् । धूमायामि प्रज्वलामि तद्यथापि नाम महानग्निस्कन्धः । पृथिवीमपि कम्पयामि । इमावपि चन्द्रसूर्यो एवं महर्द्धिको एवं महानुभावौ एवं महौजखिनौ पाणिना 30 संपरिमार्जयामि । यावद्ब्रह्मलोकं काये च संवर्तयामि । गन्धधूपपटलमेघसंछन्नं लोकं कृत्वा प्रज्वलामि । सर्वरत्नार्चिमेघसंछन्नं लोकं कृत्वा सर्वजगत्सदृशनिर्मितमेघान् प्रमुश्चामि । अनन्तवर्णप्रभाजालमेघान् प्रमुञ्चन् समन्तादिशो निर्यामि यदुत पूर्व दिशं निर्यामि,
870