________________
६ सुप्रतिष्ठितः ।
अथ खलु सुधनः श्रेष्टिदार करतां कल्याणमित्रानुशासनों तं च समन्तनेत्रं धर्मपर्यायननुस्मरन्, तच्च तथागतत्रिकुर्वितननुविचिन्तयन् तां धर्मपदव्यञ्जननेवान् बारयन्, तांश्च धर्मनुखसागरानक्तरन् तं च धर्मविधिननुविलोकयन्, तांश्च धर्मावर्तनयानवगाह्यमानः, तच धर्मगगनं समवसरन्, तच धर्ममण्डलं परिशोधयन् तं च धर्मरत्नद्वी मनुविचारयन्, अनुपूर्वेण येन सागरतीरं लङ्कारयस्तेनोपसंक्रम्य पूर्वी दिशनवलोकयानास सुप्रतिष्टितस्य भिक्षोदेर्शनकामना । एवं दक्षिणां पश्चिमानुत्तरामुत्तर पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तराम ऊर्ध्वा दिशमवलोकयामास सुप्रतिष्टितस्य भिक्षोदर्शनकामतथा । सोऽपश्यत्सुप्रतिष्ठितं भिक्षु गगनतले चंक्रम्यमाणमसंख्येयदेवताशतसहस्रपरिवृतन् : तच्च गगनतलं दिव्यपुष्पमेवाभिकीर्णमद्राक्षीद संख्येयदिव्य तूर्यमेवनिर्घोषम्, असंख्येयपट्टपताकालंकारं देवेन्द्रैः सुप्रतिष्ठितस्य भिक्षोः पूजाकर्मणि । अचिन्त्यकालागुरुमेवोन्नतनिगजनं च गगनतलमपश्यत् नागेन्द्रैः । असंख्येयदिव्यमनोज्ञवचनोपचारस्तुतिसर्वबाधतूर्यन्तंगीतिनिर्घोषांश्च किन्नरेन्द्रैः संप्रयोजितान् गगनतलादपीत् । अचिन्त्यश्च सूक्ष्मस्फुटवनमेवान् गगनतले प्रीतिमनोभिर्नहोरगेन्द्रः प्रहितान् प्रसृतानपश्यत् सुप्रतिष्टितस्य भिक्षोः गृहमाणरूपैः । अचिन्लांश्च मणिरत्नमेघान् असुरेन्द्रगगनतलनधिष्ठितान् अचिन्त्यगुणञ्चावभास- 15 मपइयत् । अचिन्त्यश्च गरुडेन्द्रगणानुदारनानवरूपवलसंस्थानान् गरुडेन्द्रकन्यापरिबारान् अविहिंसापरमान् प्राञ्जलीभूतान् गगनतलेऽपश्यत् । अचिन्त्यानि च यक्षेन्द्रशतसहस्राणि सपरिवाराणि विकृतशरीराणि गगनतलगतानपश्यत् सुप्रतिष्ठितस्य भिक्षोमैत्र्याधिपतेयतया । अचिन्त्यानि च राक्षसेन्द्रशतसहस्राणि सपरिवाराणि गगनतले अनुपरिवर्तमानानि सुप्रतिष्टितस्य भिक्षोरारक्षाप्रतिपन्नान्यपश्यत् । अचिन्त्यानि च ब्रह्मेन्द्रशतसहस्राणि गगन- 20 तले कृताञ्जलिपुटानि अभिप्रेतमनोज्ञवचनोपचार स्तुतिप्रत्युदाहारप्रयुक्तान्यपश्यत् । अचिन्त्यानि च शुद्धावासकायिकदेवताशतसहस्राणि गगनतले विमानगतान्यपश्यत् सुप्रतिष्टितस्य भिक्षोः पूजाकर्मणि ॥
अथ खलु सुधनः श्रेष्टिदारकः सुप्रतिष्ठितं भिक्षु गगनतले चंक्रम्यमाणं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्राञ्जलिः सुप्रतिष्टितं भिक्षं नमस्कृत्य एव - 25 माह - मया आर्य अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्त्वेन बुद्धधर्मा अन्वेष्टव्याः ? कथं बोधिसत्त्वेन बुद्धधर्माः समुदानयितव्याः ? कथं बोधिसत्त्वेन बुद्धधर्माः संहर्तव्याः ? कथं बोधिसत्त्वेन बुद्धधर्माः सेवितव्याः ? कथं बोधिसत्त्वेन बुद्धधर्मा भावयितव्याः ? कथं बोधिसत्त्वेन बुद्धधर्मा अनुवर्तितव्याः ? कथं बोधिसत्त्वेन बुद्धधर्माः परिपिण्डयितव्याः ? कथं बोधिसत्त्वेन 30 बुद्धधर्माः परिभावयितव्याः ? कथं बोधिसत्त्वेन बुद्धधर्मा विशोधयितव्याः सर्वबोधिसत्त्वकार्यपरिप्रापणाय ? कथं बोधिसत्त्वेन बुद्धधर्मा अनुगन्तव्या: ? श्रुतं
8 65
S89
B 27