SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ -19,0] ७ मेघः ! ६१ क्संबोधौ। स पुनरपि धर्मासने निषद्य सुधनं श्रेष्टिदारकमेतदवोचत् - अहं कुलपुत्र नरत्वला धारण्यालोकस्य लाभी । सोऽहमेकद्वित्रिसाहस्रमहासाहने लोकधातौ देवानां देवनन्त्रान् प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रान् प्रजानामि । देवानां देवनन्वनानात्वं प्रजानामि । एवं नागानां यक्षानां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणानमतु- 5 ष्याणां ब्रह्मणां ब्रह्ममन्त्रनानात्वं प्रजानामि । देवानां देवमन्त्रैकत्वं प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणानमनुष्याणां ब्रह्मणां ब्रह्ममन्त्रैकत्वं प्रजानामि । देवानां देवमन्त्रसंभेदं प्रजानामि । एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रसंभेदं प्रजानामि । तिर्यग्योनिगतानां सत्त्वानां सर्वव्यवहारमन्त्रसंज्ञाः प्रजानामि । नारकाणां सत्त्वानां 10 मन्त्रसंज्ञाःप्रजानामि । यामलौकिकानां सत्त्वानां मन्त्रसंज्ञाः प्रजानामि । आर्यमन्त्रसंज्ञाः प्रजानामि । अनार्यमन्त्रसंज्ञाः प्रजानामि । बोधिसत्त्वमन्त्रसत्त्वाशयवाग्निरुक्तीः प्रजानामि । त्र्यध्वप्राप्ततथागतखराङ्गघोषसागरान् सर्वसत्त्वानां कथारुतमन्त्रसंप्रयुक्तानवतराम्यधिमुश्चामि । चित्तक्षणे चित्तक्षणे यथा चेह त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वानां सर्वव्यवहारनिरुक्तिमन्त्रसंज्ञासागरमवतरामि, तथा पूर्वस्यां दिशि लोकधातुकोटीनियुतशतसहस्त्रेषु अप्रमाणेषु असंख्येयेषु 15 अचिन्त्येषु अतुल्येषु असमन्तेषु असीमाप्राप्तेषु अनभिलाप्यानभिलाप्येषु, तथा दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामघ ऊर्ध्वायां दिशि लोकधातुकोटीनियुतशतसहस्त्रेष्वप्रमाणेषु यावदनभिलाप्यानभिलाप्येषु सत्त्वानां सर्वव्यवहारनिरुक्तिमन्त्रसंज्ञासागरमवतरामि-यदुत देवानां देवमन्त्रान् प्रजानामि । यावद्ब्रह्मणां ब्रह्ममन्त्रान् प्रजानामि । एतमहं कुलपुत्र, बोधिसत्त्वानां सरस्वतीधारण्यालोकं प्रजानामि । किं मया 20 शक्यं बोधिसत्त्वानां चर्या ज्ञातुं गुणान् वा वक्तुम्, ये ते विविधसंज्ञागतसागरानुप्रविष्टाः । ये ते विविधसर्वजगत्संज्ञामन्त्रसागरानुप्रविष्टाः । ये ते विविधजगन्नामनिर्देशसागरानुप्रविष्टाः । ये ते विविधसर्वजगदभिलाप्यप्रज्ञप्तिव्यवहारसागरानुप्रविष्टाः । ये ते सर्वपदानुसंधिसागरानुप्रविष्टाः। ये ते पदपरमसागरानुप्रविष्टाः । ये ते सर्वत्र्यध्वारम्वणैकारम्बणव्यवहारसमुद्रानुप्रविष्टाः। ये ते पदोत्तरनिर्देशसागरानुप्रविष्टाः । ये ते द्विपदोत्तरनिर्देशसागरानुप्रविष्टाः | 25 ये ते पदप्रभेदनिर्देशसागरानुप्रविष्टाः । ये ते सर्वधर्मपदप्रभेद विनयनिर्देशसागरानुप्रविष्टाः । ये ते सर्वजगन्मन्त्रसागरानुप्रविष्टाः । ये ते सर्वस्वरमण्डलविशुद्धिव्यूहावक्रान्ताः । ये ते चक्राक्षरकोटीगतिप्रभेदनिर्याताः ॥ गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे वनवासी नाम जनपदः । तत्र मुक्तको नाम श्रेष्ठी प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वत्चर्यायामभि- 30 योक्तव्यम्, कथं निर्यातव्यम्, कथं चित्तं निध्यातव्यम् ॥ १S नामसंज्ञाः. S 76 B 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy