________________
G
-३.४७]
३ मडुश्रीः स त्वं जिनान् दशादेश पश्यन्दापे वे बुद्रक्षेत्रेषु । तेपां प्रणिधानसागर शोधाययति बोधिचर्यायान् ।। ४३ ॥ ये एत नयसनुद्रानवतीर्ण लिहित्य बुद्धभूनिये । ते भोन्ति सर्वदर्शी शिक्षन्तो लोकनाथानान् ॥ १४ ॥ त्वं सर्वक्षेत्रग्रसर क्षेत्ररजःसनांश्चरित्व बहुकल्यान् । चयां समन्तभद्रां स्मृशिम्यास शिवां प्रसर बोधिन् ॥ ४५ ॥ चरितव्य कल्पनागर अनन्तमध्य अशंपक्षेत्रे । परिपूरितव्य प्रणिधी समन्तारभद्रचोयान् ॥ ४६॥ प्रेक्षल सत्त्वनयुतान् श्रुत्वा तर प्रगिधिप्रीति संजाता ।
ये बोधि प्रार्थयन्ते समन्तभद्रेण ज्ञानेन ॥ ४७ ।। अथ खलु मञ्जुश्रीः कुमारभूत इमा गाथा भापित्वा सुधनं श्रेष्टिदारकमेतदवोचत्साधु साधु कुलपुत्र, यस्त्वमनुत्तरायै सम्यक्संवोश्ये चित्तनुत्पाद्य बोधिसत्त्वचाँ परिगवेपितव्यां मन्यसे । दुर्लभान्ते कुलपुत्र सत्ता येऽनुत्तराय सम्यक्तंबोधये चित्तनुत्पादयन्ति । अतस्ते दुर्लभतमाः सत्त्वा येऽनुत्तरायै सम्यक्तंबोधये चित्तनुःपाय बोधिसत्त्वचयाँ परिगवेपन्ते । तेन हि कुलपुत्र भूतकल्याणनित्रेषु निश्चयमातेन बोधिसत्त्वेन भवितव्यं सर्वज्ञज्ञान- 15 प्रतिलम्भाय । अपरिखिन्नमानसेन भवितव्यं कल्याणनित्रपर्येष्टिपु । अतृप्तेन भवितव्यं कल्याणमित्रदर्शनेषु । प्रदक्षिणग्राहिणा ते भवितव्यं कल्याणनित्रानुशासनीषु । अप्रतिहतेन भवितव्यं कल्याणमित्रोपायकौशल्यचरितेषु । अस्ति कुलपुत्र इहैव दक्षिणापथे रीमावरान्तो नाम जनपदः। तत्र सुग्रीवो नाम पर्वतः । तत्र मेवश्री म भिक्षुः प्रतिवसति । तनुपसंक्रम्य परिपृच्छ-कथं वोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रयोक्तव्यम् । कथं 20 बोधिसत्त्वचर्या प्रारभ्या ? कथं वोधिसत्त्वचर्यायां चरितव्यम् ? कथं बोधिसत्त्वचर्या परिपूरयितव्या? कथं परिशोधयितव्या? कथमवतर्तव्या? कथमभिनिहर्तव्या? कथमनुसतव्या? कथमध्यालम्वितव्या? कथं विस्तारयितव्या ? कथं बोधिसत्त्वस्य परिपूर्ण भवति समन्तभद्रचर्यामण्डलम् ? स ते कुलपुत्र कल्याणमित्रः समन्तभद्रचर्यामण्डलमुपदेक्ष्यति ॥
अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो ॐ मञ्जश्रियः कुमारभूतस्य पादौ शिरसाभिवन्ध मञ्जश्रियं कुमारभूतमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अनेकशतसहस्रकृत्वोऽवलोक्य कल्याणमित्रप्रेमानुगतचित्तः कल्याणमित्रादर्शनमसहमानोऽश्रुमुखो रुदन् मश्रियः कुमारभूतस्यान्तिकात्प्रक्रान्तः ॥ १॥
869
१B रामावर्तको. २ B प्राक्रमत् .