________________
४ मेघश्रीः ।
B 23
अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण येन रामावरान्तो जनपदस्तेनोपजगाम । उपेत्य रामावरान्ते जनपदे विचरन् पूर्वकुशलमूलसंभवो दारकर्माधिष्ठानमनोभिरुचितान् भोगान् परिभुञ्जानो येन सुग्रीवः पर्वतस्तेनोपसंक्रम्य सुग्रीवं पर्वतमधिरुह्य मेघश्रियं भिक्षुऽ मनुगवेषमाणः पूर्वां दिशं निर्ययौ । एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वी पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिनोत्तरामपि दिशं निर्ययौ । नेवश्रियं भिक्षुमनुगवेपमाणः ऊर्ध्वतोऽप्यवलोकयति स्म, अधस्तादपि । स सप्ताहस्यात्ययान्मेघश्रियं भिक्षुमपश्यदन्यतमस्मिन् पर्वतशिखरोत्सङ्गे चंक्रम्यमाणम् । स येन मेघश्रीर्भिक्षुस्तेनोपसंक्रम्य मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुं प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एतदवोचत् - यत्खल्लु आर्यो 10 जानीयात् मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जाने कथं वोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं वोधिसत्त्वचर्या प्रारब्धव्या, कथं वोधिसत्त्वचर्यायां चरितव्यम्, कयं वोधिसत्त्वचर्या परिपूरयितव्या, कथं परिशोधयितव्या, कथमवतर्तव्या, कथमभिनिर्हर्तव्या, कथमनुसर्तव्या, कथमध्यालम्वितव्या, कथं विस्तारयितव्या, कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम् । 15 श्रुतं च मे आर्यो वोधिसत्त्वानामववादानुशासनीं ददातीति । तद्वदतु मे आर्यः कथं बोधिसत्त्वा निर्यान्ति अनुत्तरायां सम्यक्संवोधौ । एवमुक्ते मेघश्रीर्भिक्षुः सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिपृच्छसि । दुष्करं हि एतत् कुलपुत्र परमदुष्करं यदुत बोधिसत्त्वचर्यापरिमार्गणं बोधिसत्त्वगोचरपरिमार्गणं बोधिसत्त्वनिर्याणविशुद्धिपरिमार्गणं बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं 20 बोधिसत्त्वचर्यावैपुल्यविशुद्धिपरिमार्गणं बोधिसत्त्वाभिज्ञानिर्हारविशुद्धिपरिमार्गणं बोधिसत्त्वविमोक्षसंदर्शनं बोधिसत्त्वलोककृपाप्रचारसंदर्शनं बोधिसत्त्वयथाशय जगदनुवर्तनं बोधिसत्त्वसंसारनिर्वाणमुखसंदर्शनं बोधिसत्त्वानां संस्कृतासंस्कृतदोषभयानुपलेपविचारपरिमार्गणम् । अहं कुलपुत्र अधिमुक्तिवलाधिपतेयतया चक्षुर्मतिश्रद्धानयनविशुद्ध्या अपराङ्मुखज्ञानालोकावभासेन समन्ताभिमुखावलोकनया समन्तविषयाप्रतिहतेन दर्शनेन सर्वावरणविगतेन 25 विपश्यिना कौशल्येन समन्तचक्षुर्विषयपरिशुद्धया शरीरविशुद्ध्या सर्वदिक्त्रोतः प्रसराभिमुखप्रणतेन कायप्रणाम कौशल्येन सर्वबुद्धधर्ममेघसंधारणेन च धारणीबलेन सर्वदिक्क्षेत्राभिमुखांस्तथागतान् पश्यामि । यदुत पूर्वस्यां दिशि एकं तथागतं पश्यामि । द्वावपि, दशापि, बुद्धशतमपि, बुद्धसहस्रमपि, वुद्धशतसहस्रमपि, बुद्धकोटीमपि, बुद्धकोटीशतमपि, बुद्धकोटीसहस्रमपि, बुद्धकोटीशतसहस्रमपि, बुद्धकोटीनियुतशतसहस्रमपि, 30 यावदपरिमाणानप्रमेयानसंख्येयानचिन्त्यानतुल्यानसमन्तान सीमाप्राप्तानमाप्याननभिलाप्यान्
१ B रामावत throughout २ Bom. बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं.
S 59
860