SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ B22 87 गण्डव्यूहसूनम् । ज्ञानवज दृढमार्य देहि में येन संस्कृतपुरं विदार्यते ।। ३.५॥ यत्र ते विपुलज्ञाननागरे शिक्षिता अनुलबुद्धिसागराः । सर्वबुद्धगुणसिक्तसंपदा साधु तन्मम बदार्य कीडशन् ॥ ३६॥ यत्र ते समभिरूढचक्षुपा ज्ञानराजनकुटाभ्यलंकृता । पट्टवरवद्धशीर्पया 10 धर्मराजनगरं बिलोकयि ॥ ३७॥ अथ खलु मञ्जुश्रीः कुनारभूतो नागावलोकितनावलोक्य सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संवोधौ चित्तमुत्पाद्य कल्याणमित्राण्यनुवनासि । बोधिसत्वचयाँ परिप्रष्टव्यां मन्यसे वोधिसत्त्वमार्ग परिपूरयितुकामः । एष हि कुलपुत्र आदिः, एप निप्यन्दः सर्वज्ञतापरिनिष्पत्तये, यदुत कल्याणमित्राणां सेवनं भजनं 15 पर्युपासनम् । तस्मात्तर्हि कुलपुत्र अपरिखिन्नेन ते भवितव्यं कल्याणमित्रपर्युपासनतायै । सुधन आह-यदार्य विस्तरेण कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् ? कथं प्रतिपत्तव्यम् ? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या प्रारभ्या ? कथं वोधिसत्त्वेन बोधिसत्त्वचर्यायां चरितव्यम् ? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या परिपूरयितव्या ? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या ? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अवतर्तव्या ? कथं 20 बोधिसत्त्वेन बोधिसत्त्वचर्या अभिनिहर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अनुसतव्या ? कथं वोधिसत्त्वेन बोधिसत्त्वचर्या अध्यालम्वितव्या ? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या विस्तर्तव्या? कथं बोधिसत्त्वस्य परिपूर्ण भवति समन्तभद्रचर्यामण्डलम् ? अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्टिदारकं गाथाभिरभ्यभापत साधु शुभपुण्यसागर यो हि त्वमुपागतो मम सकाशम् । विपुलकृपकरणमानस पर्येषसे अनुत्तमा वोधिम् ॥ ३८ ॥ सर्वजगन्मोक्षार्थं विपुलां प्रणिधि सि चारिकामसमाम् । भेष्यसि जगतस्त्राणं एष नयो बोधिचर्यायाः ॥ ३९ ।। ये वोधिसत्त्व सुदृढा अखिन्नमनसः संसारि ते चरिम् । समन्तभद्रा लभते अपराजितां असङ्गां हि ॥ १० ॥ पुण्यप्रभ पुण्यकेतु पुण्याकर पुण्यसागर विशुद्धिम् । यस्त्वं समन्तभद्रां प्रणिधि सि सचारिकां जगदर्थम् ॥ ४१ ॥ अमिताननन्तमध्यान् द्रक्ष्यसि बुद्धान् दशद्दिशि लोके । तेषां च धर्ममेघान् धारयितासि स्मृतिबलेन ।। ४२ ॥ 20
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy