________________
३ मजुश्री। सर्वआवरणसंप्रछेदनं
भद्रयानमभिरोहयाहि मे ॥ २७ ॥ तद्विशालमनलं जगत्सम
सर्वसत्त्वशरणं सुखावहन् । धर्मधातुविपुलं विरोचनं
बोधियानमभिरोहयाहि मे ॥२८॥ तत्प्रवृत्तिदुखस्कन्धछेदनं
कर्मक्लेशरजचक्रशोधनम् । सर्वमारपरबादिमर्दनं
धर्मयानमभिरोहयाहि मे ॥ २९ ॥ तत्समन्तदिशज्ञानगोचरं
__ धर्मधातुगगनं वियूहनन् । सर्वसत्त्वअभिप्रायपूरणं
धर्मयानमभिवाहयाहि मे ॥ ३०॥ तद्विशुद्धगगनामिताक्षयं
दृष्टिविद्यतमदृष्टिनिर्मलम् । सर्वसत्त्वउपकारसंस्थितं
धर्मयानमभिरोहयाहि मे ॥ ३१ ॥ तन्महाअनिलवेगवेगितं
प्रणिधिवायुवललोकधारणम् । सर्वशान्तिपुरभूमिस्थापनं
धर्मयानमभिरोहयाहि मे ॥ ३२ ॥ तन्महामहितलाचलोपमं
___ करुणवेगवलभारवाहितम् । ज्ञानसंपजगतोपजीवितं
अग्रयानमभिरोहयाहि मे ॥ ३३ ॥ तद्रवं यथ जगोपजीवितं
संग्रहं विपुलरश्मिमण्डलम् । धारणीवरविशुद्धिसुप्रभं
ज्ञानसूर्यमुपदर्शयाहि मे ॥ ३४ ॥ तद्ध्यनेकबहुकल्पशिक्षितं
सर्वहेतुनयभूमिकोविद ।