________________
|३.२०
गण्डन्यूहसूत्रम् । संर्वधारणविशुद्धमण्डलं
मैत्रकूटछइनं खलंकृतम् । घण्टमालप्रतिसंविदं शुभं
अनयानमुपसंहराहि मे ॥ २० ॥ ब्रह्मचर्यशयनाभ्यलंकृतं
स्त्रीसमाधिनयुतैः समाकुलम् । मदुन्दुभिरुताभिनादितं
पानराज्यनुपनामयाहि मे ॥ २१॥ संग्रहैश्चतुर्भिः कोश अक्षयं
ज्ञानरत्नगुणहारलंकृतम् । दामहीवरवरत्रसंयतं
वानश्रेष्ठमुपदर्शयाहि मे ॥ २२ ॥ त्यागरश्मिशुभमण्डलप्रमे
शीलचन्दनकृपानुलेपने। क्षान्तिशल्यदृढसंधिसंहते
अप्रयानि लघु स्थापयाहि मे ॥ २३ ॥ सर्वसत्त्वविनयानिवर्तिये
ध्यानपञ्जरसमाधिउच्छूिते । प्रज्ञपायसमयोगवाह ते
धर्मयानि प्रवरे स्थपेहि मे ॥ २४ ॥ प्रणिधिचक्रगतिचक्रशोधनं
धर्मधारणिदृढं महातलम् । ज्ञानयन्त्रसुकृतं सुनिष्टितं
धर्मयानमभिरोहयाहि मे ॥ २५ ॥ तत्समन्तचरिभद्रशोधितं
सत्त्वेक्षसविलम्बविक्रमम् । सर्वतः शुभचरीपराक्रम
ज्ञानयानमुपनामयाहि मे ॥ २६ ॥ तदृढं वजिरसारसंस्थितं
ज्ञानमार्यसुकृतं सुनिष्ठितम् ।
858
--
१ B महाबलम् .