________________
-२.२२]
२ समन्तभद्रः वृक्षाण पुप्पेभि विनिश्चरित्या
ब्रजन्ति ध्यानाङ्गमुदीरयन्तः ॥ १४ ॥ समन्तभद्रोपमत्रोधिसत्राः
सुलक्षणव्यञ्जनभूषिताङ्गाः । अचिन्त्या असंख्याः सुगतस्य रोम्णो
__ अधिष्टिता निर्मित निश्चरन्ति ॥ १५ ॥ त्र्यवोद्भवानां सुगतात्मजानां
ये वर्णनिश्चारमहासमुद्राः । गजेंन्ति तान् जेतवनोपविष्टां
स्ते व्यूहमेघा गुणसागराणाम् ॥ १६ ॥ ये सर्वदिक्सत्त्वगणत्य कर्म
महासमुद्रा निखिला विचित्रा । श्रयन्ति ते जेतवने द्रुमाणां ।
कोशान्तरेभ्योऽपि विनिश्चरन्तः ॥ १७ ॥ त्र्यवस्थितानामिह या जिनानां
क्षेत्रेषु सर्वेप्वखिला विकुर्वा । क्षेत्रादधस्तात्परमाणुसंख्या
प्रत्येकमारम्बणमाविभान्ति ॥ १८ ॥ एकैकरोम्णि प्रविभक्तु चित्रा
बुद्धा दिक्क्षेत्रे समुद्रमेघाः। आभासयन्ति जिनाधिवासा
प्रतिक्षणं तेषु च बुद्धमेघाः ॥ १९ ॥ जगत्समाः सर्वदिशः स्फरित्वा
सत्त्वानुपायैः परिपाचयन्तः । तेषां प्रभाभ्यश्च विनिश्चरन्तो
गन्धार्चिपुष्पौधसमुद्रमेघाः ॥ २० ॥ व्योमाप्रमाणानि विमानरत्नान्
अशेषसद्वयूहविराजितानि । स्फरन्ति सर्वाण्यपि सर्वदिक्षु
क्षेत्राणि सर्वाण्यथ बोधिमण्डान् ॥ २१ ॥ गण्ड.५
15
B17
20