________________
S 43
३२
गण्डव्यूहसूत्रम् ।
[ २.११
सर्वधर्मधातु स्रन्ति स्म । यदुत चित्तक्षणे चित्तक्षणे विपुलरश्मिजालमेघाः सर्वजगत्संतोषणा निश्चरित्वा दश दिशः स्फरन्ति स्म । सर्वरत्नमणिघण्टामेघा निश्चरित्वा सर्वत्र्यध्वतथागतगुणवर्णनिर्देशमेघनिनीदानदुरवन्तो दश दिशः स्फरन्ति स्म । सर्वजगद्वाद्यमेघाः सर्वारम्बणेभ्यो निश्चरित्वा सर्वसत्वकर्मविपाकमधुरवाद्य घोपसंप्रयुक्ता अनुरवन्तो दश दिशः स्फरन्ति स्न । सर्ववोधिसत्त्वप्रणिधानविचित्रवोधिसत्त्वचर्यासंदर्शन रूपमेधा निश्चरित्वा सर्वत्रोधिसत्त्वप्रणिधानन्तघोपान् निगर्जन्तो दश दिशः स्फरन्ति स्म । लक्षणानुव्यञ्जनविभूषितबोधिसत्त्वकायनेधा निश्चरित्वा सर्वक्षेत्रेष्वनुगतबुद्धों पादपरंपरामुदीरयन्तो दश दिशः स्फरन्ति स्म । सर्वत्र्यव्वतथागतसदृशवोधिमण्डमेघा निश्चरित्वा सर्वतथागता - तिसंबोधिनिर्याणव्यूहान् संदर्शयन्तो दश दिशः स्मरन्ति स्म । सर्वारम्वणेभ्यः सर्वनागे10 न्द्रकायमैवा निश्चरित्वा सर्वगन्धवर्षाणि प्रवर्पन्तो दश दिशः स्फरन्ति स्म । सर्वजगदिन्द्रसदृशकायमेघा निश्चरित्वा समन्तभद्रवोधिसत्त्वचर्यामुदीरयन्तो दश दिशः स्फरन्ति स्म । सर्वारम्वणेभ्यः सर्वरत्नमयसर्वपरिशुद्धबुद्धक्षेत्रप्रतिभासमेघा निश्चरित्वा सर्वतथागतधर्मचक्रप्रवर्तनानि दर्शयन्तो दश दिशः स्फरन्ति स्म । एवंप्रमुखा अनभिलाप्यवुद्धक्षेत्रपरमाणुरजःसमा महात्र्यूहविकुर्वितमेघा निश्चरन्ति स्म तेपां वोधिसत्त्वानामधिष्ठानेन अचिन्त्य - 15 धर्मसमुद्रावभासप्रतिलाभधर्मतया च ॥
20
अथ खलु मञ्जुश्रीर्बोधिसत्त्वो बुद्धाधिष्ठानेन एतान्येव सर्वविकुर्वितानि संदर्शयन् दश दिशो व्यवलोक्य तस्यां वेलायाममा गाथा अभाषत
25
80
संप्रेक्षतो जेतवने अनन्तं
बुद्धाधिष्टानं विपुलं प्रवृत्तम् । आरम्बा सर्व कामेघा
निश्चार्य ते सर्वदिशः स्फरन्ति ॥ ११ ॥
अनन्तवर्णा विपुला विशुद्धा
व्यूहा विचित्रा: सुगतात्मजानाम् ।
दृश्यन्ति सर्वेहि त आसनेभ्यः
सारवणेभ्यः प्रतिभासप्राप्ताः ॥ १२ ॥ नानावियूहा रतनार्चिमेघाः
स्फरन्ति क्षेत्रान्तर सर्जमानाः । रोम्णां मुखेभ्यः सुगतात्मजानां
रुतानि बौद्धानि निगर्जमानाः ॥ १३ ॥
ब्रह्मेन्द्ररूपैः
ः सदृशात्मभावाः
प्रशान्तईर्यापथ शुद्धकायाः ।