________________
SA
गण्डव्यूहसूत्रम् ।
[२.२२येऽशेपतश्यध्वगता हि दिक्षु
त्र्यवस्थितानां सुगतौरसांनाम् । समन्तभद्रश्चरितप्रकार
विशोधिताः क्षेत्र महोपीनाम् ॥ २२ ॥ व्यूहा विचित्रा जगदप्रमाणे
विंशोधिताः कल्पमहासमुद्रः । दृश्यन्ति तेऽपि प्रतिभासयोगा
__ दशेपतो जेतवनान्तरिक्षे ॥ २३ ॥ अथ खलु तेषां वोधिसत्त्वानां बुद्धसमाध्यवभासितसंतानानामेकैकस्य बोधिसत्त्वस्य 12 अनमिलायबुद्धक्षेत्रपरमाणुरजःसमानि महाकरुणामुखान्यवक्रान्तानि । ते भूयस्या मात्रया सर्वजगद्धितसंग्रहाय प्रतिपन्नाः । तेषां तथा समाहितानामेकैकस्माद्रोममुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमा रश्मयो निश्चरन्ति । एकैकस्माच्च रश्मिमुखादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमा बोधिसत्त्वनिर्माणमेघा निश्चरन्ति स्म सर्वलोकेन्द्रसदृशकायाः सर्वजगन्मुखकायाः
सर्वसत्त्वपरिपाकानुकूलकायाः । निश्चरित्वा सर्वदिक्षु धर्मधातुं स्फरित्वा सत्त्वान् संबोधयन्ति 15 परिपाचवन्ति विनयन्ति । अनमिलाप्यवुद्धक्षेत्रपरमाणुरजःसमैर्देवभवनच्युतिसंदर्शनमुखैः
सर्वलोकोपपत्तिसंदर्शनमुखैोधिसत्त्वचर्यामण्डलसंदर्शनमुखैः स्वप्नसंदर्शनमुखैश्चित्तसूचनामकायुः । सर्वबोधिसत्त्वप्रणिधाननिर्याणमुखैलोकधातुसंपन्नमुखैर्दानपारमिताचर्यासंदर्शनमुखैः सर्वतथागतगुणप्रतिपत्तिनिवृत्तिमण्डलमुखैः अङ्गप्रत्यङ्गच्छेदनाक्षान्तिपारमितासंदर्शनमुखैः महाबोधिसत्त्वविकुर्वितवीर्यपारमितासंदर्शनमुखैः सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्ति20 बुद्धज्ञानमार्गमण्डलालोकप्रभासखरमुखैः सर्वबुद्धधर्मपर्येषणाय एकैकस्य धर्मपदव्यञ्जनस्यार्थाय असंख्येयात्मभावपरित्यागसंदर्शनमुखैः सर्वतथागतोपसंक्रमणसर्वधर्मपरिपृच्छनमुखैः यथाकालयथाशयजगदुपसंक्रमणोपनायिकसर्वज्ञतापरिपूरकोपायनयसागरालोकविज्ञप्तिमुखैः सर्ववोधिसत्त्वपुण्यज्ञानसंभारसर्वमारपरप्रवाद्यनवमृद्यबलकेतुसंदर्शनमुखैः सर्वशिल्पज्ञाना
भिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वजगद्विशेषज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वसत्त्वाIs As_25 शयविशेषज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वसत्वेन्द्रियप्रवेशप्रयोगनानाक्लेशवासना
समुद्धातज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः सर्वसत्त्वनानाकर्मप्रतिपत्तिज्ञानाभिज्ञावतीज्ञानभूमिसंदर्शनमुखैः । एतत्प्रमुखाननभिलाप्यवुद्धक्षेत्रपरमाणुरजःसमैः सत्त्वपरिपाकविनयोपायसंग्रहमुखस्तैर्बोधिसत्त्वाः सर्वसत्त्वभवनेषूपसंक्रान्ताः संदृश्यन्ते स्म । केचिदेवभवनेषु
केचिन्नागभवनेषु केचिद् यक्षभवनेषु केचिद्गन्धर्वभवनेषु केचिदसुरभवनेषु केचिद्गरुडभव30 नेषु केचित्किन्नरभवनेषु केचिन्महोरगभवनेषु केचिद्ब्रह्मेन्द्रमवनेषु केचिन्मनुष्येन्द्रभवनेषु केचिद् यमनगरेषु केचित् सर्वप्रेतालयेषु केचित् सर्वनरकलोकेषु केचित् सर्वतिर्यग्योनिगतिषु
1B सर्वलोकाशय.