________________
[१.९२
गण्डव्यूहसूत्रम् । अर्थाय सर्वसत्त्वानानुत्पद्यन्ते तथागताः । महाकारुणिका धीरा धर्मचक्रप्रवर्तकाः ॥ ९२ ॥ प्रतिकतु कयं शक्यं बुद्धानां सर्वदेहिभिः । सत्त्वार्थेप्वभियुक्तानां कल्पकोटिशतैरपि ।। ९३ ॥ कल्पकोट्यो वरं पवन्यपाये भृशदारुणे । न त्वेवादर्शनं शान्तुः सर्वसङ्गविवर्तिनः ॥ ९४ ॥ सर्वसत्त्वगतो यावान् दुःखस्कन्धः प्रवर्तते । उत्सोढव्यः स निखिलो बुद्धानां न त्वदर्शनम् ॥ ९५ ॥ यावन्त्यः सबलोकेऽस्मिन्नपायगतयः पृथक् । वरं तत्र चिरं वासो बुद्धानामश्रुतिर्न च ॥ ९६ ॥ एकैकत्र वरं कल्पान् निवासो नरकेऽपि तान् । न त्वन्यत्र जिनाप्तायाः स्थितो बोधेर्विदूरतः॥ ९७ ॥ किं कारणमपायेषु निवासश्चिरमिष्यते । यत्कारणं जिनेन्द्रस्य दर्शनं ज्ञानवर्धनन् ॥ ९८ ॥ छिद्यन्ते सर्वदुःखानि दृष्ट्वा लोकेश्वरं जिनम् । संभवत्यवतारश्च ज्ञाने संबुद्धगोचरे ॥ ९९ ॥ क्षपयत्यावृतीः सर्वा दृष्ट्वा वुद्धं नरोत्तमम् । वर्धयत्यमितं पुण्यं येन बोधिरवाप्यते ॥ १०० ॥ छिनत्ति काङ्क्षा विमतीः सत्त्वानां वुद्धदर्शनम् । प्रपूरयति संकल्पांल्लौकिकांल्लोकोत्तरानपि ॥ १०१॥