SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ S 20 10 गण्डव्यूहसूत्रम् । [१.६५भवसंत्रासविच्छेत्ता त्रैधातुकविशोधनः । निष्पत्तिोधिसत्त्वानां वुद्धबोध्याकरस्तथा ॥ ६५ ॥ अनन्तवर्णदर्शावी सर्ववर्णेष्वनिश्रितः। दर्शयत्यपि तान् वर्गानचिन्त्यान् सर्वदेहिभिः ॥ ६६ ॥ शक्यं न ज्ञानपर्यन्तो गन्तुं बुद्धस्य केनचित् । एकक्षणे बुद्धबोधिरचिन्त्या येन शोधिता ॥ ६७ ॥ अक्षयो ज्ञाननिर्देशो निर्विकारः स्वभावतः । एकक्षणे प्रभाज्यन्ते यस्मिन्यध्वगता जिनाः ॥ ६८ ॥ अनन्तका तप्रज्ञो वोयर्थी चिन्तयेत्सदा । चित्तमित्यपि यत्रास्य चित्ते चित्तं न जायते ॥ ६९ ॥ सर्वाभिलापाविषया गम्भीरा वाक्पथोज्झिताः । अचिन्त्या बुद्धधर्मास्ते यैः संबुद्धाः प्रभाविताः ॥ ७० ॥ अथ खलु वैरोचनप्रणिधानकेतुध्वजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत अमूढस्मृतयः शुद्धा धर्मोद्गतसुनिश्चिताः। अचिन्त्यमतिमन्तस्ते अक्षया बोधिसागराः ॥ ७१ ॥ मनोऽत्र निश्चितं तेषां तच्चर्यागोचरो ह्ययम् । तेषामत्राचलं ज्ञानं तेऽत्र च्छिन्नकथंकथाः ॥ ७२ ॥ खेदो नोत्पद्यते तेषां न तेपां सीदते मनः । तेषां प्रवर्तते चित्तं बुद्धधर्मपरायणम् ॥ ७३ ।। तेषां प्रजायते श्रद्धा मूलजाता समुंद्गता । ज्ञानेऽत्र हि रतिस्तेषामनिलम्भे निरालये ॥ ७४ ॥ संपूर्णाः कुशलैर्धर्मेः कल्पकोटीसमार्जितैः। नामयन्ति च तत्सर्वे एते ज्ञानार्थिनोऽसमाः ॥ ७५ ॥ विचरन्ति च संसारे न च संसारनिश्रिताः । निश्चिता बुद्धधर्मेषु रमन्ते बुद्धगोचरे ॥ ७६ ॥ यावती लोकसंपत्तिः सत्त्वधातौ प्रवर्तते । सर्वा ग्रहीणा धीराणां बुद्धसंपत्स्थिता हि ते ॥ ७७ ॥ वृथा समाश्रितो लोकः सदा बद्धः प्रवर्तते । असङ्गचारिणस्तत्र सदा सत्त्वार्थनिश्रिताः ॥ ७८ ॥ 15 25 831 १B°संसारविच्छेत्ता, २ B समुद्भवा.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy