________________
२१
829
-१.६४]
१ निदानपरिवर्तः। येऽवत्रये विनीयन्ते श्रावकाः परमर्षिणा । न क्रमोदक्षेपनिक्षेपं संवुद्धस्य विदन्ति ते ॥ ५१ ॥ येऽपि प्रत्येकसंवुद्धाः त्रिष्वप्यध्वप्वशेपतः । न क्रमोत्क्षेपनिक्षेपं तेऽपि जानन्ति तायिनः ॥ ५२ ॥ किं पुनः सर्वसत्त्वा हि विज्ञास्यन्ति विनायकन् । श्वेव गर्दुलबद्धा ये ह्यविद्यातमसावृताः ॥ ५३ ॥ प्रमाणैरप्रमेयोऽसौ न शक्यं जानितुं जिनः । असङ्गज्ञानवान् वुद्धः समतिक्रान्तवाक्पयः ।। ५४ ।। पूर्णचन्द्रप्रभो धीरो लक्षणः सुविचित्रितः । क्षपयत्यमितान् कल्पानधितिष्ठन् विकुर्वितैः ।। ५५ ।। नयादेकैकतो बुद्धं चिन्तयन् मुसमाहितः । अनभिलाप्याः क्षपयेत्कल्पकोटीरचिन्तियाः ॥ ५६ ।। गुणैकदेशपर्यन्तं नाधिगच्छेत्स्वयंभुवः । निरीक्षमाणो वुद्धोऽपि वुद्धधर्मा ह्यचिन्तियाः ॥ ५७ ॥ येषां च प्रणिधिस्तत्र येपां च मनमो रतिः । तेऽप्येवंगोचराः सर्वे भविष्यन्ति सुदुर्दशाः ॥ ५८ ॥ पुण्यज्ञानमयानन्तं महासंभारविक्रमाः । नयं ह्यवतरन्त्येतं धीमच्चित्तेऽमले स्थिताः ।। ५९ ॥ विपुलः प्रणिधिस्तेषां विपुलश्चित्तसंवरः ।
लप्स्यन्ति विपुलां बोधिमाक्रम्य जिनगोचरम् ॥ ६० ॥ अथ खलु सर्वमारमण्डलविकिरणज्ञानध्वजराजो बोधिसत्त्वो बुद्धाधिष्टानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत
असङ्गज्ञानकायत्वादशरीराः स्वयंभुवः । अचिन्त्यज्ञानविषयाः शक्यं चिन्तयितुं न ते ॥ ६१ ॥ अचिन्त्यैः कर्मभिः शुलैर्बुद्धकायः समार्जितः। त्रैलोक्यानुपलिप्तोऽसौ लक्षणव्यञ्जनोज्ज्वलः ॥ १२ ॥ समन्तावभासो लोके धर्मधातुविशोधितः । बुद्धबोधेरपि द्वारं सर्वज्ञानमहाकरः ॥ ६३ ॥ विरजो निष्प्रपञ्चश्च सर्वसङ्गविवर्जितः। . आदित्यभूतो लोकस्य ज्ञानरश्मिप्रमुञ्चनः ॥ ६४ ॥.
15
25
12
शङ्खलबद्धा.