SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १८ गण्डव्यूहसूत्रम् । बोधिसत्त्वा महाप्रज्ञा दुर्धर्षा अपराजिताः । शूरवजा असंकीर्णा ज्ञानभूमिपरायणाः ॥९॥ अप्रमेयाः समापन्नास्ते समावि महायशाः । स्फरित्वा धर्मधातुं हि दर्शयन्ति विकुर्वितम् ॥ १० ॥ अथ खलु दुर्योधनवीर्यवेगराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभापत पुण्यगर्भान् महाप्रज्ञान् बोधिचर्यागतिंगतान् । क्षमंकरान् सर्वलोके पश्यध्वं सुगतात्मजान् ॥ ११ ॥ मेधाविनोऽनन्तमतीन् सुसमाहितचेतसः। अनन्तमध्यगम्भीरविपुलज्ञानगोचरान् ॥ १२ ॥ जेताह्वये महारण्ये महाव्यूहोपशोभिते । बोधिसत्त्वसमाकीर्णे सम्बक्संबुद्धआश्रमे ॥ १३ ॥ अनिकेताप्रतिष्टानान् पश्यध्वं सागरान् बहून् । दशभ्यो दिग्भ्य आगत्य निषण्णान् पद्मआसने ॥ १४ ॥ अप्रतिष्ठाननायूहान्निष्प्रपञ्चाननालयान् । असङ्गचित्तान् विरजान् धर्मधातुपरायणान् ॥ १५॥ ज्ञानध्वजान् महावीरान् वज्रचित्तानकम्पियान् । अनिवृतेषु धर्मेषु निर्वाणं दर्शयन्ति ते ॥ १६ ॥ दशदिक्क्षेत्रकोटीभ्योऽसंख्येभ्यः समुपागतान् । संबुद्धमुपसंक्रान्तान् द्वयसंज्ञाविवर्जितान् ॥ १७ ॥ खयंभोः शाक्यसिंहस्य पश्यन्तीदं विकुर्वितम् ।। अधिष्ठानेन यस्येमे बोधिसत्त्वाः समागताः ॥ १८ ॥ बुद्धधर्मेष्वसंभेदा धर्मधातुतलेषु च । व्यवहारमात्रसंभेदपारप्राप्ता जिनात्मजाः ॥ १९॥ धर्मधातोरसंभेदकोट्यन्ते मुनयः स्थिताः। अक्षयैश्च प्रकुर्वन्ति पदैर्धर्मप्रभेदनम् ॥ २० ॥ अथ खलु समन्तश्रीसमुद्गततेजोराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत पश्यध्वं सत्त्वसारस्य विपुलं ज्ञानमण्डलम् । कालाकालमभिज्ञाय धर्म देशेति प्राणिनाम् ॥ २१ ॥ नानातीर्थ्यसमाकीर्णपरवादिप्रमर्दनः । यथाशयानां सत्त्वानां संदर्शति विकुर्वितम् ॥ २२ ॥ B11 826
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy