________________
१ निदानपरिवर्तः। न च प्रदेश संबुद्धो न च बुद्धो दिशानुगः । अप्रमाणप्रमाणानि नातिक्रान्तो महानुनिः ॥ २३ ॥ दिनसंख्यो यथादित्यः प्रभावयति खे वजन् । एवं ज्ञानविदुः शास्ता त्र्यध्वासङ्गप्रभावितः ॥ २४ ॥ पूर्णमास्यां यथा रात्री भासते चन्द्रमण्डलम् । परिपूर्णं तथा शुक्लधर्मैः पश्यति नायकन् ।॥ २५ ॥ अन्तरीक्ष यथैवेह व्रजत्यादित्यमण्डलन् । वितिष्ठते नैवेह तं तथा वुद्धविकुर्वितन् ॥ २६ ॥ यथापि गगनं दिक्षु सर्वक्षेत्रेष्वनिश्रितम् । एवं लोकप्रदीपस्य ज्ञेयं बुद्धविकुर्वितम् ॥ २७ ॥ यथा हि पृथिवी लोके प्रतिष्ठा सर्वदेहिनाम् । लोके लोकप्रदीपस्य धर्मचक्र तथा स्थितन् ॥ २८ ।। यथापि मारुतोऽसज्जन् क्षिप्रं व्योम्नि प्रवायति । बुद्धस्य धर्मता तबल्लोकवातुपु वर्तते ॥ २९ ॥ अप्स्कन्धे हि यथा सर्वक्षेत्रसंख्याः प्रतिष्ठिताः।
एवं त्र्यध्वगता बुद्धा ज्ञानस्कन्धे प्रतिष्ठिताः ॥ ३०॥ अथ खलु असङ्गश्रीगर्भराजो बोधिसत्त्वो वुद्धाधिष्टानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत
यथापि पर्वतः शैल उद्विद्धो वज्रसंभवः । सर्वलोकपरित्राता बुद्धो लोके तथोद्गतः ॥ ३१ ॥ यथैव सागरे तोयमप्रमेयमनाविलम् । बुद्धदर्शनमेवं हि लोकतृष्णां छिनत्ति च ॥ ३२ ॥ पर्वतो हि यथा मेरुः सागराम्भःसमुद्गतः । तथैव लोकप्रद्योत उद्गतो धर्मसागरात् ॥ ३३ ॥ यथैव सागरः पूर्णः सर्वरत्नमहाकरः। खयंभुवस्तथा ज्ञानमक्षयं क्षणबोधनम् ॥ ३४ ॥ गम्भीरं नायके ज्ञानमसंख्येयमथामितम् । दर्शयत्यमिताचिन्त्यं येन बुद्धो विकुर्वितम् ॥ ३५॥ मायाकारो यथा विद्वान् मायालक्षणदर्शकः । एवं ज्ञानवशी बुद्धो विकुर्वितनिदर्शकः ॥ ३६॥ चिन्तामणियथा शुद्धोऽभीप्सितार्थप्रपूरणः। एषमाशयशुद्धानां जिनः प्रणिधिपूरणः ॥ ३७॥
525