SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 523 गण्डव्हसूत्रम् । बुद्धविकुर्वितानि संदर्शयमानं पश्यन्ति । ते च महाश्रावकास्तत्रैव भगवतः पादमूले तिष्ठन्ति यापयन्ति, न च तं तथागतसमाधिविषयविकुर्वितप्रातिहायं पश्यन्ति, न च तं नहान्तं बोधिसत्त्वमंनिपातं. महारत्नाकरन् । तत्कस्य हेतोः ? तथा हि तेषां सर्वज्ञताविपक्षा विद्यादूप्यावत्रज्ञानचक्षुनां तदसङ्गबोधिसत्त्वज्ञानचक्षुर्न परिशुद्धम् , न च तैर्धर्मधातुपरंपराB 19_5 प्रवेशोऽनुबुद्रः, येन तदचिन्त्यतथागतसमाधिवृपभिताविकुर्वितप्रातिहार्यं पश्येयुः ॥ तद्यथापि नाम अन्ति विरजःप्रभासवती नाम चक्षुःपरिशुद्धिः, या सर्वतमोन्धकारेण सार्थ न संवनति । तां कश्चित्पुरुषः प्रतिलभेत । स विरजःप्रभासवत्या चक्षुःपरिशुद्ध्या समन्वागतस्तमोन्धकारपर्यवनद्धायां रात्र्यामनेकेषां प्राणकोटीनियुतशतसहस्राणां संनिपतितानां विविधाकल्पेबापथानां तिनिरान्धकारपर्याकुलनेत्राणां मनुष्याणां मध्येऽनु॥ विचरेत् . अनुचंक्रमेत् , तिष्ठेत् , निपीदेत् , नानेर्यापथान् वा कल्पयेत् । न च ते मनुष्यास्तं पुरुषं पझ्येयुः, न संजानीयुः विविधानीर्यापधान् कल्पयमानम् । स च पुरुषस्तं महान्तं जनकायं पश्येत् नानर्यापथाकल्पविहारिणं नानादिगभिमुखं नानासंस्थानं नानावणं नानाप्रावरणम् । एवनेव तथागतः सबोधिसत्त्वगणपरिवारो विशुद्धासङ्गज्ञानचक्षुः सर्वलोकं जानाति पश्यति । महाबुद्धसमाधिविकुर्वितप्रातिहार्य संदर्शयति । न च ते महाश्रावकास्तं 15 तथागतमहाज्ञानसमाधिविकुर्वितप्रातिहार्य पश्यन्ति, न च तं महाबोधिसत्त्वसंनिपातपरिवारम्॥ तद्यथापि नाम भिक्षुर्महतो जनकायस्य मध्ये पृथिवीकृत्स्नं समाधि समापद्येत, अकृत्स्नं वा, तेजःकृत्स्नं वा, वायुकृत्स्नं वा, नीलकृत्स्नं वा, पीतकृत्स्नं वा, लोहितकृत्स्नं वा, अवदातकृस्नं वा, देवकृत्स्नं वा, विविधसत्त्रकार्यकृत्स्नं वा, सर्वरुतरवितकृत्स्नं वा, सर्वालम्बनकृत्तं वा समाधि समापद्येत । न च स महाजनकायस्तमप्स्कन्धं पश्येत्, न च तं 20 ज्वलनालोकं न च तद्विविधकायकृत्स्नं यावत् तं सर्वालम्बनकृत्स्नं न पश्येत् , अन्यत्र तत्समाधिनमापत्तिविहारप्राप्तेभ्यः । एवमेव तथागतस्य तदचिन्त्यबुद्धसमाधिविषयविकुर्वितं संदर्शयतः ते महाश्रावका न पश्यन्ति, ते च बोधिसत्त्वास्तथागतमार्गप्रतिपन्नास्तं तथागतविपयमवतरन्ति ॥ तद्यथापि नाम अञ्जनसिद्धः पुरुषो नेत्रयोरञ्जितमात्रयोः सर्वजनकायेनादृश्यशरीरो 25 भवति । स गच्छन् वा स्थितो वा निषण्णो वा सर्वजनकायं पश्यति । एवमेव तथागतो लोकोत्तरसर्वजगद्विषयसमतिक्रान्तः सर्वज्ञज्ञानविषयावक्रान्तो बोधिसत्त्वज्ञानचक्षुर्विज्ञेयः । स सर्वजगत् पश्यति । ते च महाश्रावकास्तानि तथागतविकुर्वितानि न पश्यन्ति ॥ तद्यथापि नाम पुरुषस्य सहजाता देवता नित्यानुबद्धा । सा तं पुरुषं पश्यति, स च पुरुपस्तां देवतां न पश्यति । एवमेव तथागतः सर्वज्ञज्ञानविषयावस्थितो महान्ति बुद्ध30 विकुर्वितानि संदर्शयति महतो बोधिसत्त्वगणसंनिपातम्या मध्ये । ते च महाश्रावकास्तं तथागतविकुर्वितप्रातिहायं तच्च बोधिसत्त्वपर्षन्मण्डलविकुर्वितं न पश्यन्ति न जानन्ति । १ Bom. पीतकृत्न.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy