________________
-१..]
१ निदानपरिवर्तः। सत्त्वचर्याविशेषप्रणिधानपरिपूरित्रिशुद्ध्या च सर्वबोधिसत्त्वभूमिज्ञाननण्डलाक्रमणतया च सर्वबोधिसत्त्वसमाधिविहारविक्रीडनतया च सर्वबोधिसत्त्वज्ञानगोचरासङ्गविकरणतया च 21 तामचिन्त्यां वुद्धवृषभितां बुद्धविक्रीडितं पश्यन्ति, अवतरन्ति, अनुभवन्ति । ते च महाश्रावका अप्रयुगभद्रयुगप्रमुखा न पश्यन्ति न जानन्ति बोधिसत्त्वचक्षुविरहितत्वात् ।।
तद्यथापि नाम हिमवति पर्वतराजे औपध्याकराकीर्णे मन्त्रविद्यौपविज्ञानग्रहणसिद्ध- । विद्यः पुरुषः सर्वौषधिविधीन् प्रजानन् औषधिग्रहणकर्म कुर्यात् । तत्रैव च शैलेन्द्राभिन्नद्धाः पशुगवेडकऋक्षमृगलुब्धकास्तदन्ये वा पुनरौपध्यविधिज्ञाः पुरुषास्तमौपधिरतवीर्यविपाकप्रभावोपाययोगं न प्रजानन्ति । एवमेव ते बोधिसत्त्वास्तथागतज्ञानविषयमवतीणी बोधिसत्त्वविकुर्वितविषयनिर्यातास्तं तथागतसमाधिविकुत्रितविषयं प्रजानन्ति, ते च नहाश्रावकाअप्रयुगभद्रयुगप्रमुखास्तत्रैव जेतवने विहरन्तः स्वकार्यसंतुष्टाः परकार्यनिल्सका उपेक्षका 10 दृष्टधर्मसुखविहारेण सुखस्पर्श विहरन्ति, तं च तथागतसमाधिविषयविकुर्वितविषयं न प्रजानन्ति ॥
तद्यथापि नाम इयं महापृथिवी सर्वरत्नाकरसमृद्धा निधिशतसहत्रनिचिता नानाविधानन्तरत्नपरिपूर्णा । तत्र रत्नगोत्रविधिज्ञानकृतविद्यः पुरुपो रत्नपरीक्षस्तत्र पर्यवदातमतिविधानतन्त्रज्ञानशिल्पसुशिक्षितो विपुलपुण्यवलोपस्तब्धः ततो यथेष्टं रत्नान्यादाय आत्मानं सम्यक् 15 प्रीणयेत् , मातापितरं सम्यक्परिचरेत् , पुत्रदारं च पोषयेत् । तदन्येषामपि सत्त्वानां वृद्धानामातुराणां दरिद्राणां विनिपतितानामशनवसनविग्रहीणानां संविभागं कुर्यात् । विविधां च अर्थरतिमनुभवेत् । ये तु पुनस्ते रत्नाकरनिधानाविधिज्ञाः सत्त्वाः, अकृतपुण्या अपरिशुद्धरत्नज्ञानचक्षुषस्तेषां रत्नाकरान् रत्ननिधीन्न प्रजानन्ति, तत्रैव च विचरन्ति । न च रत्नानि गृह्णन्ति । न रत्नकार्याणि कुर्वन्ति । एवं ते वोधिसत्त्वा जेतवने तत्र 20 अचिन्त्ये तथागतविषये सुपरिशुद्धज्ञानचक्षुषोऽचिन्त्यतथागतज्ञानविषयावतीर्णास्तानि बुद्धविकुर्वितानि पश्यन्ति । धर्मनयसागरांश्चावतरन्ति । समाधिसमुद्रांश्च निप्पादयन्ति । तथागतपूजोपस्थाने च प्रयुज्यन्ते । सर्वधर्मपरिग्रहाय चोयुज्यन्ते । सर्वसत्त्वांश्च संगृह्णन्ति चतुर्भिः संग्रहवस्तुभिः । ते च महाश्रावकास्तानि तथागतविकुर्वितानि तं च महान्तं 522 बोधिसत्त्वगणसंनिपातं न पश्यन्ति न जानन्ति ।।
25 तद्यथापि नाम पुरुषो दूष्यवस्त्रावद्धाभ्यां नेत्राभ्यां रत्नद्वीपमनुप्राप्तः स्यात् । स तत्र रत्नद्वीपे चंक्रमेत् , तिष्ठेत् , निषीदेत् , शय्यां वा कल्पयेत् , न च तं रत्नाकरं पश्येत् । न रनवृक्षान् , न वस्त्ररत्नानि, न गन्धरत्नानि, न सर्वरत्नानि पश्येत् । नापि तानि रत्नानि परिजानीयाद्विषयतो वा मूल्यतो वा परिभोगतो वा । स तानि रत्नानि न परिगृह्णीयात् , न च रत्नकार्यमनुभवेत् । अनावृतचक्षुषः एतत्सर्वं पश्येयुर्विजानीयुः । एवमेव ते बोधिसत्त्वा 30 धर्मरनद्वीपमनुप्राप्ता अनुत्तरं तथागतरत्नं सर्वलोकालंकारं संमुखीभूतं जेतवने स्थितमचिन्त्यानि
१Bom. रत्नानि.