________________
B 9
S 20
કે
गण्डव्यूहसूत्रम् ।
[ १.०
धर्मतायां सत्त्वान्नियोजयेयुः । तत्तेपां ज्ञानं न संविद्यते । तत्कस्य हेतोः ? तथा हि ते श्रावकयानेन निर्याताः, श्रावकमानेंग समुदागताः, श्रावकचर्यामण्डलपरिपूर्णाः श्रावकफलप्रतिष्ठिताः, सत्यावभात्तज्ञाननिश्रिताः भूतकोटीप्रतिष्ठिताः । अत्यन्तशान्तनिष्ठां गताः महाकरुगाविरहितचेतसः सर्वलोकनिरपेक्षाः आत्मकार्यपरिप्राप्ताः । ते तत्रैव जेतवने संनिपतिताः 5 संनिपण्णाः । भगवतः पुरतो वामदक्षिणपृष्ठतो भगवतोऽभिमुखं संनिषण्णाः । न च तानि जेवने बुद्धविकुर्वितान्यद्राक्षुः । तत्कत्य हेतोः ? न हि शक्यमसमार्जित सर्वज्ञताज्ञानैरमनुदानीतसर्वज्ञताज्ञानैः असंप्रस्थितसर्वज्ञताज्ञानैः अप्रणिहितसर्वज्ञताज्ञानैः अनभिनिर्हृतसर्वज्ञताज्ञानैः अपरिभावित सर्वज्ञताज्ञानैः अपरिशोधित सर्वज्ञताज्ञानैः तत्तथागतसमाधिविकुर्वितमवतनुं वा प्रतिपत्तुं वा द्रष्टुमधिगन्तुं वा । तत्कस्य हेतोः ? अभिजातबोधिसत्त्व10 चक्षुष्पथविज्ञेयं हि तत्, न श्रावकचक्षुष्पथविज्ञेयम् । तेन ते महाश्रावकास्तत्रैव जेतवने स्थितास्तानि तथागतविकुर्वितानि बुद्धाधिष्ठानानि बुद्धक्षेत्रपरिशुद्धिं बोधिसत्त्वसंनिपातं न पश्यन्ति ॥
15
तद्यथापि नान गङ्गाया महानद्या उभयतस्तीरे वहूनि प्रेतशतसहस्राणि समागतानि क्षुत्पिपासाप्रपीडितानि नग्नानि निर्वसनानि विदग्धगात्रच्छविवर्णानि वातातपपरिशुष्काणि काक संघोपद्रुतानि वृकश्टगालैर्वित्रस्यमानानि तां गङ्गां महानदीं न पश्यन्ति । केचित्पुनः शुष्कां पश्यन्ति निरुदकां भस्मपरिपूर्णाम्, आवरणीयकर्मावृतत्वात् । एवमेव ते स्थविरा महाश्रावकास्तत्रैव जेतवने स्थिताः तानि तथागत विकुर्वितानि न पश्यन्ति, नावतरन्ति, सर्वज्ञताविपक्षिकाविद्यापटलनेत्रपर्यत्रनद्धत्वात्, सर्वज्ञताभूमिकुशलमूलापरिगृहीतत्वात् ॥
तद्यथापि नाम पुरुषो महंत्यहि वर्तमाने महतो जनकायस्य मध्ये स्त्यानमिद्धमव20 क्रामेत् । स सुप्तः खप्नान्तरगतस्तत्रैव प्रदेशे देवनगरं पश्येत् । सुदर्शनचक्रनिलयं सर्वं च सुमेरुतलं सवृक्षं सोद्यानमण्डलमप्सरः कोटीनियुतशतसहस्राकीर्णं देवपुत्रकोटीनियुतशतसहस्राध्युषितं विचित्रदिव्यपुष्पाभिकीर्णम् । विविधदिव्यवस्त्रमुक्ताहाररत्नाभरणस्त्रैक्प्रमुक्तकोशांश्च कल्पवृक्षान् पश्येत् । नानाविधदिव्यवाद्यसमीरितमनोज्ञमधुरनिर्घोषांश्च वाद्यवृक्षान् पश्येत् । अनेकविधांश्च रतिक्रीडाव्यूहान् पश्येत् । मधुरांश्च दिव्याप्सरोगणसंगीतिवाद्य25 शब्दान् शृणुयात् । तत्रस्थं चात्मानं संजानीयात् । सर्वावन्तं च तत्प्रदेशं दिव्यव्यूहविभूषितं पश्येत् । स च सर्वो जनकायो न पश्येत्, न जानीयात्, न विलोकयेत्, तत्रैत्र प्रदेशे स्थितः सन् । तत्कस्य हेतोः ? तस्यैव हि पुरुषस्य स्वप्नान्तरगतस्य तद्दर्शनम्, तत्रैव च प्रदेशे स्थितस्य तस्य महाजनकायस्यादर्शनम् । एवमेव ते बोधिसत्त्वास्ते च लोकेन्द्रा वोध्यभिमुखा विपुलेन बुद्धाधिष्टानेन स्वकुशलमूलसुसमार्जिततया च सर्वज्ञता - प्रणिधानखभिनिर्हृततया च सर्वतथागतगुणसुप्रतिपन्नतया च महाव्यूहबोधिसत्त्वमार्गसुप्रतिष्ठिततया च सर्वज्ञताज्ञानसर्वाकारधर्मोद्गतसुपरिनिष्पन्नतया च समन्तभद्रबोधि
१S विभ्राम्यमानानि. २ B महति महे. ३ B पुष्प 'for स्रक्.
30