________________
-१.०]
१ निदानपरिवर्तः । बोधिसत्त्वप्रातिहार्य बोधिसत्त्वपर्षन्मण्डलं वोधिसत्त्वदिगवस्थानं बोधिसत्त्वसिंहासनव्यूह बोधिसत्त्वभवनं बोधिसत्त्वविहारं बोधिसत्त्वसमाधिविक्रीडितं बोधिसत्त्वव्यवलोकित बोधिसत्त्वविजृम्भितं वोधिसत्त्वविक्रमं बोधिसत्त्वतथागतपूजां वोधिसत्त्वव्याकरणं बोधिसत्त्वाविपाकं बोधिसत्त्वपराक्रमं बोधिसत्त्वधर्मकायपरिशुद्धि बोधिसत्त्वज्ञानकायपरिपूरिं बोधिसत्त्वप्रणिधिकायविज्ञप्ति बोधिसत्त्वरूपकायपरिनिष्पत्ति बोधिसत्त्वलक्षणसंपत्परिशुद्धिं वोधिसत्त्वानन्तबल- 5 प्रभामण्डलव्यूह बोधिसत्त्वरश्मिजालप्रमुञ्चनं बोधिसत्त्वनिर्मितमेघावसृजनं बोधिसत्वदिग्जालस्फरणं बोधिसत्त्वचर्यामण्डलविकुर्वितमद्राक्षुः । तत्कन्य हेतोः ? कुशलनूलासभागतया। न हि तैः सर्ववुद्धविकुक्तिदर्शनसंवर्तनीयानि कुशलमूलान्युपचितानि । न च तेपां पूर्व दशदिग्लोकधातुपर्यापन्नाः सर्वबुद्धक्षेत्रगुणव्यूहपरिशुद्धयः संवर्णिताः । न च तेषां बुद्धभगवद्भि
नाबुद्धविकुर्वितानि संवर्णितानि । न च तैः पूर्व संसारे संसरद्भिरनुत्तरायां सम्यक्संबोधौ 10 सत्त्वाः पारमितासु समादापिताः । न च तैर्वोधिचित्तोत्पादः परसंतानेषु प्रतिष्ठापितः । न च ते तथागतवंशस्यानुपच्छेदाय प्रतिपन्नाः । न च सर्वसत्त्वसंग्रहाय प्रयुक्ताः । न च तैर्बोधिसत्वाः पारमितासु समादापिताः । न च तैः पूर्वं संसारे संसरद्भिः सर्वजगद्विशेपवतीज्ञानभूमिरच्यालम्विता। न च तैः सर्वज्ञतासंवर्तनीय कुशलमूलमुपचितन् । न च तैन्तथागतलोकोत्तरकुशलमूलपरिनिष्पन्नाः सर्वबुद्धक्षेत्रपरिशुद्धिविकुर्विताभिज्ञा ज्ञाताः । न च बोधि- 15 सत्त्वचक्षुष्पथविज्ञप्तिरसाधारणलोकोत्तरबोध्यालम्बनकुशलमूलमहाबोधिसत्त्वप्रणिधानसंभवा ज्ञाताः । न च तथागताधिष्ठाननिर्यातमायागतधर्मता निर्वृत्ताः । खप्नोपमवोधिसत्त्वनानासंज्ञाग्रहाधिष्ठाना महाबोधिसत्त्वप्रीतिवेगविवर्धनाः समन्तभद्रबोधिसत्त्वज्ञानचक्षुप्पथविज्ञप्तयोऽसाधारणाः सर्वश्रावकप्रत्येकबुद्धाताः । तेन ते महाश्रावकाः अग्रयुगभद्रयुगप्रमुखास्तं तथागतविकुर्वितं न पश्यन्ति, न शृण्वन्ति, न जानन्ति, न बुध्यन्ति, 20 5 19 नावतरन्ति, नाधिमुच्यन्ते नाधिगच्छन्ति, न समन्वाहरन्ति, न विलोकयन्ति, न निरीक्षन्ते, न निध्यायन्ति, नोपनिध्यायन्ति । तत्कस्य हेतोः ? बुद्धज्ञानगोचरोऽसौ, न श्रावकगोचरः। तेन ते महाश्रावकास्तत्रैव जेतवने स्थितास्तानि बुद्धविकुर्वितानि न पश्यन्ति । न हि तेपां तद्भागाय कुशलमूलमस्ति, न च तेषां तज्ज्ञानचक्षुर्विशुद्धम् , येन तानि वुद्धविकुर्वितानि पश्येयुः। न च समाधिः संविद्यते, येन परीत्तालम्बने विपुलविकुर्विताधिष्ठानान्यवतरेयुः । 25 नाष्टौ विमोक्षाः संविद्यते, न सा ऋद्धिः, न सा वृषभिता, न तद्बलम् , न तदाधिपतेयम् , न तत्स्थानम् , न संज्ञा, न चक्षुर्विक्रमः संविद्यते, येन तत्संजानीयुर्वा पश्येयुर्वा अवैतरेयुर्वा अधिगच्छेयुर्वा स्फरेयुर्वा प्रसरेयुवा व्यवलोकयेयुर्वा अनुभवेयुर्वा आक्रमेयुर्वा परेषां प्रभावयेयुर्वा देशयेयुर्वा सूचयेयुर्वा संवर्णयेयुर्वा संदर्शयेयुर्वा उपनामयेयुर्वा उपसंहरेयुर्वा, तत्र वा सत्त्वानि समादापयेयुः, निर्योजयेयुः प्रतिष्ठापयेयुः, तस्यां बुद्धविकुर्वित-30
१S °मूलसभाग'. २ B om. पारमितासु. ३ B तद्भोगाय'. ४S नासौ. ५ B om. अवतरेयुर्वा.