________________
-५६.०] ५६ समन्तभद्रचर्याप्रणिधानम् ।
કર विशुध्यन्ति स्म धर्मनलिनीव्यूहबुद्धक्षेत्रविशुद्ध्या । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्व- B11 कायचित्तप्रह्लादनप्राप्ततया । सर्वयुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वरत्नमयसंस्थानतया । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधातुलक्षणानुव्यञ्जनप्रतिमण्डितसंस्थानतया । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वव्यूहालंकारमेघसंस्थानतया । सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधात्वन्योन्यमैत्रहितचित्ताव्यापन्नचित्तसंस्थानतया । सर्ववुद्धक्षेत्राणि विशुध्यन्ति । स्म बोधिमण्डालंकारव्यूहसंस्थानतया । सर्ववुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्ववुद्धानुस्मृतिमनसिकारप्रयुक्तसंस्थानतया । इमानि दश पूर्वनिमित्तानि प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनाय ॥
अपरे दश महावभासाः प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनपूर्वनिमित्तम् । कतमे दश? । यदुत सर्वलोकधातुपरमाणुरजःसु एकैकस्मिन् परमाणु-10 रजसि सर्वतथागतजालानि विद्योतयन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्ववुद्धप्रभामण्डलमेघा निश्चर्य अनेकवर्णा नानावर्णा अनेकशतसहस्रवर्णाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वरत्नमेघाः सर्वतथागतप्रतिभासविज्ञपनान्निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतार्चिश्चक्रमण्डलमेघा निश्चरित्वा सर्वधर्मधातुं 15 8532 स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वगन्धपुष्पमाल्यविलेपनधूपमेघा निश्चरित्वा समन्तभद्रस्य बोधिसत्त्वस्य सर्वगुणधर्मसमुद्रमेघान्निगर्जमाणा दशदिक्सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वचन्द्रसूर्यज्योतिर्मघा निश्चरित्वा समन्तभद्रवोधिसत्त्वप्रभा प्रमुञ्चमानाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वसत्त्वकायसंस्थानप्रदीपमेघा 20 निश्चरित्वा बुद्धरश्मिवत्प्रभासमानाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतकायप्रतिभासमणिरत्नविग्रहमेघा निश्चरित्वा दशसु दिक्षु सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतकायसंस्थानरश्मिविग्रहमेघा निश्चरित्वा सर्वबुद्धाधिष्ठानप्रणिधानमेघानभिप्रवर्षमाणाः सर्वधर्मधातुं स्फरन्ति स्म । सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वरूप-25 गतवर्णावभासा बोधिसत्त्वकायप्रतिभासमेघसमुद्राः सर्वसत्त्वनिर्माणकार्यप्रयोगाः सर्वसत्त्वसर्वाभिप्रायपरिपुरिनिष्पादना निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म । इमे दश महावभासाः प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य दर्शनपूर्वनिमित्तम् ॥
अथ खलु सुधनः श्रेष्ठिदारक इमान् दश पूर्वनिमित्तावमासान् दृष्ट्वा समन्तभद्रस्य बोधिसत्त्वस्य दर्शनावकाशप्रतिलब्धः खकुशलमूलबलोपस्तब्धः सर्वतथागताधिष्ठानसर्व- 30 बुद्धधर्मावभाससंजातः समन्तभद्रबोधिसत्त्वप्रणिधानाविष्टः सर्वतथागतगोचराभिमुखः उदारबोधिसत्त्वगोचरनिश्चयबलाधानप्राप्तः समन्तभद्रबोधिसत्त्वदर्शनसर्वज्ञताप्रभालाभसंज्ञी समन्त