SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ S 533 B 212 18534 गण्डव्यूहसूत्रम् । [ ५६.० 5 भद्रवोधिसत्त्वदर्शनाभिमुखेन्द्रियः समन्तभद्रबोधिसत्त्वदर्शन महावीर्यवेगप्राप्तः समन्तभद्रबोधिसत्त्वपरिगवेषमाणाविवर्त्यवीर्यप्रयोगः सर्वदिगभिमुखेनेन्द्रियचक्रेण समन्तभद्रचक्षुर्विपयावक्रमणेन बोधिसत्त्वशरीरेण सर्वतथागतारम्वणसंप्रेषितेन अनवशेषबुद्धपादमूलगतसमन्तभद्रबोधिसत्त्वानुवद्धेन चित्तेन समन्तभद्रवोधिसत्त्वारम्वणपरिगवेषणाविप्रवसितेनाशयेन सर्वा - ८ रम्बणेषु समन्तभद्रवोधिसत्त्वदर्शनसंज्ञागतगर्भः समन्तभद्रबोधिसत्त्वपथप्रसृतेन ज्ञानचक्षुषा आकाशधातुविपुलेनाशयेन महाकरुणावज्रसुसंगृहीतेनाध्याशयेन अपरान्तकोटीगतकल्पाविष्ठानेन समन्तभद्रवोधिसत्त्वानुवन्वनप्रणिधानेन समन्तभद्रबोधिसत्त्वत्चर्या समतानुगतया क्रमविक्रमविशुद्ध्या सर्वतथागतविपयसंवसनेन समन्तभद्रबोधिसत्त्व भूमिप्रतिष्ठानज्ञानविहारेण समन्वागतोऽद्राक्षीत् समन्तभद्रं बोधिसत्त्वं भगवतो वैरोचनस्य तथागतस्यार्हतः सम्यक्सं10 बुद्धस्य पुरतो महारत्नपद्मगर्भे सिंहासने निषण्णं बोधिसत्त्वपर्षन्मण्डलसमुद्रगतं बोधिसत्त्वगणपरिवृतं बोधिसत्त्वसंघपुरस्कृतं सर्वपर्पमण्डलानुसृताभ्युद्गतकार्यं सर्वलोकानभिभूतं सर्ववोधिसत्त्वानुव्यवलोकितमपर्यन्तज्ञानविषयमसंहार्यगोचरमचिन्त्य विषयं त्र्यध्व समतानुगतं सर्वतथागतसमतानुप्राप्तम् । स तस्य सर्वरोमविवरेभ्यः एकैकस्माद्रोमविवरात् सर्वलोकधातुपरमाणुरजःसमान् रश्मिमेघान्निश्चरित्वा धर्मधातुपरमाकाशधातुपर्यवसानान् सर्वलोकधातूनव15 भास्य सत्त्वानां दुःखं प्रशमयमानानपश्यत् । स तस्य कायात् सर्वबुद्धक्षेत्र परमाणुरजः समान् प्रभामण्डलमेवान्निश्चरित्वा नानावर्णान् सर्ववोधिसत्त्वानुदारप्रीतिप्रामोद्यवेगान् विवर्धयमानानपश्यत् । मूर्धतोंऽसकूटाभ्यां सर्वरोमविवरेभ्यश्च नानावर्णान् गन्धार्चिमेघान्निश्चार्य सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वपुष्पमेघान्निश्चार्य सर्वतथागतपर्षन्मण्डलानि 20 स्फरित्वा अभिप्रवर्षमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्र पर - माणुरजःसमान् सर्वगन्धवृक्षमेघान्निश्चार्य आकाशधातुपर्यवसानं सर्वधर्मधातुं गन्धवृक्षमेघालंकारालंकृतं कृत्वा अक्षयगन्धचूर्णविलेपनकोशप्रयुक्तान् सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्ववस्त्रमेधान्निश्चार्य आकाशधातुपर्यवसानं सर्वधर्मधातुं संछाद्य अलंकुर्वाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्मा25 द्रोमविवरात्सर्वबुद्धक्षेत्र परमाणुरजः समान् सर्वपट्टदाममेघान् सर्वाभरणमेघान् सर्वमुक्ताहारमेघांश्चिन्तामणिरत्नमेघान्निश्चार्य सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत् सर्वसत्त्वानां सर्वाभिप्रायपरिनिष्पत्तये । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् रत्नद्रुममेवान्निश्चार्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा विस्फुटरत्नद्रुममेघालंकारालंकृतं कृत्वा सर्वतथागतपर्षन्मण्डलानि महारत्नवर्षैरभिप्रवर्षमाणा30 नपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्र परमाणुरजः समान् रूपधातुदेवनिकायमेघान्निश्चार्य बोधिसत्त्वं संवर्णयतः सर्वलोकधातुं स्फरमाणानपश्यत् । सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वब्रह्मगतिपर्यापन्नदेवनिकायनिर्मितमेघान्निश्चार्य अभिसंबुद्धान् ४२२
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy