SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ S 530 S 531 ५६ समन्तभद्रचर्याप्रणिधानम् । अथ खलु सुधनः श्रेष्ठिदारकः त्रिसाहस्रमहा साहस्रलोकधातुपरमाणुरजः समकल्याणमित्रपर्युपासितः सर्वज्ञतासंभारोपचितचेताः सर्वकल्याणमित्राववादानुशासनीषु प्रदक्षिणग्राहितया प्रतिपन्नः सर्वकल्याणमित्राशयसमताप्रसृतः सर्वकल्याणमित्रारागणा विरागणबुद्धिः 5 सर्वकल्याणमित्राववादानुशासनीनय समुद्रानुगतः महाकरुणाशयसागरसंभूतगर्भो महामैत्री - नयमेधसर्वजगद्विरोचनः महाप्रीतिवेग संवर्धितशरीरः विपुलबोधिसत्त्वविमोक्षप्रशान्तविहारी समन्तमुखप्रसृतत्यागचक्षुः सर्वतथागतगुणसमुद्रप्रतिपत्तिसुपरिपूर्णः सर्वतथागताधिमुक्तिपथप्रसृतः सर्वज्ञतासंभारवीर्यवेगविवर्धितः सर्वबोधिसत्त्वत्चित्ताशयसुपरिणामितबुद्धिः सर्वत्र्यध्वतथागतपरंपरावतीर्णः सर्वबुद्धधर्मनयसागरानुबुद्धः सर्वतथागतधर्मचक्रनयसागरानुगतः सर्व10 लोकोपपत्तिप्रतिभाससंदर्शनगोचरः सर्वबोधिसत्त्वप्रणिधाननयसागरावतीर्णः सर्वकल्प बोधि - सत्त्वत्चर्यासंप्रस्थितः सर्वज्ञताविषयावभासप्रतिलब्धः सर्वबोधिसत्त्वेन्द्रियविवर्धितः सर्वज्ञता - मार्गावभासप्रतिलब्धः सर्वदिग्वितिमिरा लोकप्राप्तः सर्वधर्मधातुनयप्रसृतबुद्धिः सर्वक्षेत्रनयावभाससंजातः सर्वसत्त्वप्रसारार्थक्रियाप्रतिस्रोतोनुगतः सर्वावरणप्रपातपर्वतविकिरणोऽनावरणधर्मतानुगतः समन्ततलभूमिधर्मधातुगर्भबोधिसत्त्वविमोक्षप्रशान्तविहारी सर्वतथागतगोचरमन्वेष15 माणः सर्वतथागताधिष्ठितः समन्तभद्रस्य बोधिसत्त्वस्य गोचरं विचारयमाणः स्थितोऽभूत् । समन्तभद्रस्य बोधिसत्त्वस्य नामधेयं श्रुत्वा बोधिचर्यां श्रुत्वा प्रणिधानविशेषं च श्रुत्वा संभारसंभवप्रस्थानप्रतिष्ठितविशेषं च श्रुत्वा अभिनिर्धारनिर्याणपथविशेषं च श्रुत्वा समन्तभद्रभूम्याचारविचारं च श्रुत्वा भूमिसंभारं च श्रुत्वा लम्भविशेषं च श्रुत्वा भूमिप्रतिलम्भवेगं च श्रुत्वा भूम्याक्रमणं च श्रुत्वा भूमिप्रतिष्ठानं च श्रुत्वा भूमिपराक्रमविक्रमं च श्रुत्वा भूमिगौरवं च श्रुत्वा 20 भूम्यधिष्ठानं च श्रुत्वा भूमिसंवासं च श्रुत्वा समन्तभद्रबोधिसत्त्वदर्शनपरितृषितस्तस्मिन्नेव वज्रसागरगर्भबोधिमण्डे तथागतसिंहासनाभिमुखः सर्वरत्नगर्भपद्मासननिषण्णः आकाशधातुविपुलेन चित्तेन सर्वाभिनिवेशोच्चलितेन, सुभावितया सर्वक्षेत्रसंज्ञया, सर्वसङ्गसमतिक्रान्तेन चित्तेन, सर्वधर्मानावरणगोचरेण अप्रतिहतेन चित्तेन, सर्वदिक्समुद्रस्फरणेन अनावरणेन चित्तेन, सर्वज्ञताविषयाक्रमणेन शुद्धेन चित्तेन, बोधिमण्डालंकारविपश्यनापरिशुद्धेन 25 सुविभक्तेन चित्तेन, सर्वबुद्धधर्मसमुद्रावतीर्णेन विपुलेन चित्तेन, सर्वसत्त्वधातुपरिपाकविनयस्फरणेन महद्गतेन चित्तेन, सर्वबुद्धक्षेत्रपरिशोधनेन अपरिमाणेन चित्तेन, सर्वबुद्धपर्षन्मण्डलप्रतिभासप्राप्तेन सर्वकल्पसंवासापर्यादत्तेन अनन्तेन चित्तेन सर्वतथागतबलवैशारद्यावेणिक बुद्धधर्मपर्यवसानेन । एवं चित्तमनसिकारप्रयुक्तस्य खलु पुनः सुधनस्य श्रेष्ठदारकस्य पूर्वकुशलमूलाभिष्यन्दितसर्वतथागताधिष्ठानेन च समन्तभद्रस्य बोधिसत्त्वस्य पूर्वकुशलमूल30 सभागतया समन्तभद्रस्य बोधिसत्त्वस्य दर्शनाय दश पूर्वनिमित्तानि प्रादुरभूवन् । कतमानि दश ? यदुत सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वतथागतबोधिमण्डालंकारविशुद्ध्या । सर्वबुद्धक्षेत्राणि विशुष्यन्ति स्म सर्वाक्षणापायदुर्गतिपथविनिवृत्ततया । सर्वबुद्धक्षेत्राणि
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy