________________
गण्डन्यूहसूत्रम् । कारयमाणं बुद्धपूजायां सत्त्वान् समादापयमानं गन्धानुलेपनप्रदानं सुगन्धतैलाभ्यञ्जनपुष्पमाल्यारोपणादिसर्वाकारबुद्धपूजाप्रयुक्तं दशसु कुशलमूलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयमानं पञ्चसु शिक्षापदेषु अष्टाङ्गपोषधेषु वुद्धधर्मसंघशरणगमनेषु प्रव्रज्यायां धर्मश्रवणे उद्देश
खाध्याययोनिशोमनसिकारेषु सत्त्वान्नियोजयमानं धर्मसांकथ्याय सिंहासनसंनिषण्णं बुद्धबोधि 5 विवृण्वन्तम् । इति हि यावन्मैत्रेयो बोधिसत्त्वोऽसंख्येयैः कल्पकोटीनियुतशतसहस्रैः षट्सु पारमितासु चीर्णचरितः, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्मादष्टापदादपरापरैराकाररद्राक्षीत् । स कचित्कूटागारे यावन्ति मैत्रेयेण बोधिसत्त्वेन कल्याणमित्राणि पर्युपासितानि तेषां विकुर्वितव्यूहानद्राक्षीत् । सर्वेषु च तेषु कल्याणमित्रेषु उपसंक्रान्तमाभाष्यमाणमात्मानं
संजानीते स्म-एहि सुधन स्वागतम् । मासि क्लान्तः । पश्येमां बोधिसत्त्वाचिन्त्यताम् ॥ 10 इति हि सुधनः श्रेष्ठिदारकस्तत एकैकस्मात्कूटागारादेकैकस्मादारम्बणादिमानि च
अन्यानि च अविचिन्त्यव्यूहविषयविकुर्वितान्यद्राक्षीत् । असंप्रमुषितेन स्मृतिवलाधानेन B 207 समन्तदिग्व्यवचारितया चक्षुःपरिशुद्ध्या अनावरणेन विपश्यनाकौशल्यज्ञानेन बोधिसत्त्व
ज्ञानाधिष्ठानवशिताप्रतिलम्भेन बोधिसत्त्वसंज्ञागतप्रसृतायां ज्ञानभूमौ स्थितः, तत्सर्वमनन्तव्यूहविषयविकुर्वितमद्राक्षीत् । तद्यथा पुरुपः सुप्तः स्वप्नान्तरगतो विविधान् रूपारम्बण15 विशेषान् पश्येत् यदुत गृहविमानरमणीयानि वा ग्रामनगरनिगमजनपदरमणीयानि वा वस्त्रान्नपानपरिभोगरमणीयानि वा गीतवाद्यतूर्यसंगीतिविविधरतिक्रीडारमणीयानि वा पश्येत् । उद्यानारामतपोवनरमणीयानि वा वृक्षनदीपुष्किरिणीपर्वतरमणीयानि वा मातापितृमित्रज्ञातिसालोहितसमवधानगतं वा आत्मानं संजानीते । महासमुद्रं वा पश्येत् सुमेरुं वा पर्वतराजानं सर्वदेवभवनानि वा जम्बुद्वीपं वा, अनेकयोजनशतस्थितं वा आत्मानं संजानीते । तच्च गृहं 20 वा अवचरकं वा विपुलं पश्येत् । सर्वगुणालंकारसमवसृतं दिवसमेव संजानीते । न
रात्रिदीर्घ च संजानीते न हखम् , न स्वप्न इति संजानीते । सुखोपस्थानं चात्मनः पश्येत् । स प्रस्रव्धकायसंस्कारो विगतस्त्यानमिद्धः सर्वरत्यपकर्षितो विपुलप्रीतिसुखसंवेदी दीर्घ च विपुलं च संजानीते । दिवसं वा सप्ताहं वा अर्धमासं वा संवत्सरं वा वर्षशतं वा ततो
वा उत्तरि संजानीते । प्रतिविबुद्धश्च तत्सर्वमनुस्मरेत् । एवमेव सुधनः श्रेष्ठिदारकः 25 बोधिसत्त्वाधिष्ठानेन सर्वत्रैधातुकखप्नसमवसरणज्ञानेन परीत्तसंज्ञागतनिरुद्धचेता विपुलमह
द्गतानावरणबोधिसत्त्वसंज्ञागतविहारी बोधिसत्त्वविषयानुगतोऽचिन्त्यबोधिसत्त्वनयप्रवेशानुसृतबुद्धिस्तत्सर्वव्यूहविकुर्वितमपश्यत् संजानीतेऽनुभवति विचारयति निमित्तीकरोति आलक्षयति, तत्र च स्थितमात्मानं संजानीते। तद्यथा ग्लानः पुरुषश्चरमे चित्तोत्पादे वर्तमान उपपत्यानन्तर्यचित्ते प्रत्युपस्थिते कर्मभवे आमुखीभूते यथाकृतकर्मोपचयविपाकेन अशुभकर्मप्रत्ययेन नरकं 30 वा पश्येत् , तिर्यग्योनि वा प्रेतविषयं वा यमपुरुषान् वा दृढप्रहरणगृहीतान् रुषितानाक्रोशतो .. रुदिताक्रोशितशब्दं च नारकाणां शृणुयात् । तां च क्षारनदी पश्येत् , तांश्च क्षुरधारा- पर्वतान् , तां च कूटशाल्मलीम् , तच्च असिपत्रवनं पश्येत् । तांश्च महानरकानादीप्तान्
8522